पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवत्याम-बेतालपञ्चविंशतिको ।
३७९
बृहत्कथामञ्जरी ।

नृपः प्राह घणिकपुत्री घिनश्च झवकेतुना ।
अवस्था दशमी नीतौ भ्रमण न तदद्भुतम् ॥ ११४२ ॥
गाढरागोऽत्र कौमारः पतिरस्या मुमोच यः ।
सहसा दयितान्प्राणान्बजेणेक विदारितः ॥ ११४३ ॥
इति श्रुत्वेति वेतालो गत्वा पुनरलम्वत ।
स चानिनाय तं यत्नादखिन्नो मेदिनीपतिः ॥ ११४४ ॥
इत्येकविंशो वेतालः ॥ २३ ॥
अथ स्कन्धगतः प्राह वेतालः शृणु भूपते ।
ब्रह्मस्थलाग्रहारेऽभूद्विष्णुस्वामी द्विजोत्तमः ॥ ११४९ ।।
चत्वारस्तस्य तनया बभूवुः श्रुतिशालिनः ।
मृते पितरि ते जग्मुर्मातुलानां निवेशनम् ॥ ११४६ ॥
सावज्ञमीक्षमाणास्तैनिर्धतास्तत्र ते स्थिताः ।
अचिन्तयत्रहो दुःखं दारिछ मरणाविकम् ॥ ११४७ ।।
गृध्राः प्रयान्ति च शव नित्यं मांसोपजीविनः ।
निष्पत्रमपि दग्धं च नित्यमांगारिकास्तरुम् ।
न तु दारिद्यसंस्पृष्टं कश्चित्स्पृशति पूरुषम् ॥ ११४८ ॥
शीतलैदीर्घनिद्रैश्च निरुच्छाससुः शवैः ।
दरिद्रतापनिर्निद्रः सोच्छ्वासः स्पर्धते कथम् ॥ ११.४९ ॥
एकः प्राह गतोऽद्याई स्मशानं भूतभीषणम् ।
दौर्गत्यदुःखादात्मानं परित्यक्तुं समुद्यतः ॥ ११५० ।।
ततः केनापि कारुण्याङधेनेवारिस रक्षितः ।
अभुक्त्वा स्वकृतं कर्म मरणं प्राप्यते कुतः ॥ ११५१ ॥
इति ध्यात्वा ययुः स्वैर सर्वे देशान्तरं पृथक् ।
पुनः संगमसंकेतस्थानमादिश्य ते ततः ॥. ११५२ ।।
ततः कालेन से भान्दा पृथिवीं बहुकौतुकाम् ।
अवाप्तविद्या मिलिताः परस्परमथोचिरे ॥ १.१५३ ॥


"विष्णुस्वामीत्यभूद्विजः' इति कथासरित्सागरे, 'देवखामी' ख.