पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७८
काव्यमाला ।

ध्यायति लपते क्षिप्रं शेते मुह्यति वेपते ।
व्यावर्तते च सुभगा त्वां विना सा सुलोचना ॥ ११२९ ॥
चन्दनानीन्धनं यस्मिन्निन्दवो विधविन्दवः ।
हारो वह्निविकारश्च तेन तापेन सार्दिताः ॥ ११३० ॥
इति तद्वचसा सद्यः सुधासारैरिवोत्थितः ।
निशि प्रायाचदुद्यानं स तया चारसूचितः ॥ ११३१॥
सख्या गिरा तमायातं विज्ञायानङ्गमञ्जरी।
उन्मिमील प्रदीपश्रीरिव लेहेन पूरिता ॥ ११३२ ॥
ततस्तमागतं दृष्ट्वा व्याकोशनयनोत्पला ।
लज्जां विहाय सोत्कण्ठं कण्ठे जग्राह सुन्दरी ॥ ११३३ ॥
अयं लब्धोऽसि सुभग क गमिष्यसि मे पुरः ।
अभिधायेति सास्रं तं तन्वी तत्याज जीवितम् ॥ ११३४ ॥
सहसा विगतप्राणां दृष्ट्वा तां कमलाकरः ।
विलय्य सुचिरं गाढं परिष्दज्याभवद्यासुः ॥ ११३९ ॥
ततः प्रभाते तद्दुःखमिलिते बन्धुमण्डले ।
अर्थदत्ते सुता कोपलज्जाशोकैश्च निन्दति ॥ ११३६ ॥
तस्याः स मणिकर्णाख्यः कौमारः पतिराययौ ।
उत्कण्ठानिर्भरः पश्यन्प्रेयस्याः कुशलं जनम् ॥ ११३७ ॥
उद्यानमथ संप्राप्य तामन्यनरसंगताम् ।
दृष्ट्वैव जीवितत्यक्तां रागी प्रायात्स पश्चताम् ॥ ११३८ ॥
सान्यरागेण निर्दग्या विपन्नः स च तां विना ।
अहो नु कोऽप्यरं कामो विदग्धोऽप्याविभ्रमः ॥ ११३९ ॥
ततो भगवती गौरी वणिजां कुलदेवता ।
गुणैरभ्यर्थिता सर्वान्कृपया तानजीवयत् ।। ११४० ॥
अभिधायति बेतालः पप्रच्छ पृथिवीपतिम् ।
वसु सम्पाधिको राजनेतेभ्यः कस्यतामिति । ११४.१ ॥