पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कवल्याम्-बेतालपञ्चविंशतिका ]
३७७
बृहत्कथामारी ।

 
ततः सा यौवनोन्मता ग्रीष्मे चन्दनचर्चिता
उत्फुल्लमल्लिकादामधम्मिल्लहृतषट्वदा ॥ १११६ ॥
ददर्श हर्म्यमारुह्य सौन्दर्यकुसुमायुधम् ।
कमलाकरनामानं युवानं द्विजपुत्रकम् ।। १११७ ॥
तं वीक्ष्य नयनानन्दवान्धवं साभवत्क्षणात् ।
नलिनीच विलीनेव दष्टेव मुषितेव च ॥ ११.१८॥
तदालोकनसंजातपृथुवेपथुमोहिता ।।
नेदं युक्तमितीवोक्ता सिञ्जानमणिभूषणैः ॥ १११९ ॥
चन्द्ररागमुखी पद्मरागरक्तकरोज्वलाम् ।
सोऽपि तां चिरमालोक्य लावण्यमणिपुत्रिकाम् ॥ ११२० ॥
ययौ विलोलयन्मौलिं रूपातिशयविस्मितः ।।
प्रविष्टामिव तद्वक्के कर्षन्निव शनैशम् ।। ११२१ ॥
ततः सा प्रौढतापेन ग्लपिता मदनाग्निना ।
दाहोपकरणं मेने मृणालकदलीवनम् ।।- ११२२ ।।
तुषारकिरणस्नेरां शर्वरी मदनोज्वलाम् ।
दावानलैवलयितामिव घोरामसंस्त सा ॥ ११२३ ॥
तौति स पार्वतीमेत्य सा निजोद्यानवर्तिनी ।
तेन पुष्पशरेणेव संगमो मे भवत्विति ॥ ११.२४ ।।
कृष्णपक्षेन्दुलेखेव शरन्निर्झरिणीव वा. ।
कान्तिमात्रावशेषाभूत्केयूराहतकणा ॥ ११२९ ।।
तां पाण्डुरमुखीं क्षामां स्मरज्वरभयातुरान् ।
सखी मालतिका नाम दृष्ट्वा शोकाकुलाभवत् ॥ ११२६ ॥
साथ गत्वा तदादिया कमलाकरमन्दिरम् ।
तं. ददर्श निजोद्याने प्रच्छन्ना विरहातुरम् ।। ११२७ ॥
तामेव विलपन्तं तु सुहृदाश्वासिल मुहुः ।।
तं समभ्येत्य सा माह सख्यास्तां मन्मथव्यथाम् ॥ ११३८ ।।