पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७६
काव्यमाला ।

तं कृताञ्जलयः सर्वे निवृत्ता वधसाहसात् ।
किमेतदिति साशङ्काः प्रशशंसुः सराक्षसाः ॥ १.१०३ ॥
कथयित्वेति देतालो भूपालं वहलच्छलः ।
पप्रच्छ ब्राह्मणशिशोरकाण्डस्मितकारणम् ॥ ११०४ ॥
राजा जगाद यः कश्चिदबलः परिभूयते ।
केनापि याति शरणं मातरं पितरं च सः ॥ ११०५ ॥
तदसंरक्षितस्त्राणं राजानमधिगच्छति ।
ततोऽप्यप्राप्य निर्वाणं देवं स्मरति पूजितम् ॥ ११०६ ॥
ते सर्व एव तत्रायः निधनाय समुद्यताः ।
तान्वीक्ष्याचिन्तयद्वालः स सत्त्वविपुलाशयः ।। ११०७ ।।
अहोऽतिदुःखसारस्य शरीरस्यास्य भगिनः ।
कृते कुकर्मप्रार मतेरिति जहास सः !! ११०८॥
इति श्रुत्वेति वेतालः प्रययौ शिशिपां पुनः ।
आनिनाय च तं भूयो लम्बमानं नरेश्वरः ॥ ११०९ ॥
इति विंशो वेतालः ॥ २२ ॥
ततः स्कन्धस्थितः प्राह वेतालः शृणु भूपते ।
गतागतपरिश्रान्तः कथामेकां विनोदिनीम् ॥ १११० ॥
अभूत्पुरि विशालायामर्थदत्ताभिधो वणिक् ।
अनङ्गमञ्जरी नाम पुत्री तस्याभवत्प्रिया ॥ ११११
स तां ददौ रूपवती ताम्रलिप्तानिवासिने ।
धनामिजनतुल्याय वणिजे मणिकर्मणे ॥ ११ १२ ॥
शक्तः क्षणमपि स्थातुं न यदा रहितस्तया ।
तदा न तत्याज पिता स तां निजगृहात्सदा ॥ १११३ ॥
कदाचित्वपुरी याते सा पत्यौ मणिकर्मणि ।
जहरे कृष्णसर्पण निर्मुक्तव निरर्गला ॥ १११४ ॥
राव्यमेतत्सुधा चैषा चन्द्रोऽयमयमुत्सवः ।
यत्क्षण नयनेमेष्टो जनः पुण्येन दृश्यते ॥ १११५ ॥