पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाकवत्याम्-वेतालपञ्चविंशतिका ।।
३७५
बृहत्कथामझरी ।

अवाप्य श्वखुराकेन सभार्यः स्वपुरे ययौ ।
प्रदध्यौ मन्त्रिचक्रेण राक्षसाय प्रतिश्रुतम् ॥ १.०९० ॥
मुख्यामात्यस्ततो धीमा(न्सुमतिर्नाम धीमतः
हैमें पुरुषमादाय महार्ह मणिभूषितम् ॥ १.०९.१ ।।
चचारात्मानमेतेन को ददातीति घोषयन् ।)
निशम्य ब्राह्मणः कश्चिद्वालोऽप्यङ्गीचकार तम् ।। १०९२ ॥
सुवर्णपुरुष पित्रे दापयित्वा महाशयः ।
उवाच मातरं दीनां निर्धनं पितरं च सः ॥ १०९३ ।।
राज्ञः सपौरमृत्यस्य श्रेयसे वितराम्यहम् ।
आत्मानं राक्षसायाच मूल्येनानेन भूरिया ॥ १०९४ ॥
युष्मदारिद्यनाशाय कुशलं प्रस्तुतं मया ।
पवनाकम्पिदीपाशिवालोलैनिजांसुमिः ।। १०९६ ॥
इदं मे दोःस्थिमांसासुरवीभत्सं क्षणिकं वपुः ।
सत्यं परोपकारेण यात्येव स्पृहणीयताम् ॥ १
इत्यादि कुत्सयन्कार्य जनकं शनकैः शिशुः ।
चकार धीरं सनद्धो भूमिपालसमीहिते ॥ १०९७ ॥
ततः स मन्त्री राजानं कृत्वा विदिततत्कथम् ।
निनाय पित्रा मात्रा च सहाश्वत्यतलं द्विजम् ॥ १०९८ ।।
स्वयमेत्य नृपस्तत्र मण्डलं ब्रह्मरक्षसे ।
पुरोषसा विधायाशु. सं बालं हन्तुमुद्ययौ ।। १०९९ ॥
स च स्तब्धको मात्रा प्रत्यक्ष वीक्ष्य राक्षसम् ।
पित्रा निरुद्धचरणः प्रध्यौ हृदये शिशुः ॥ १.१०० ।।
उद्दामकरवालेनः राज्ञाय निहतस्य मे ।
भूयात्परोपकारैकमवणं जन्म सर्वदा ॥ ११०१ ॥
विचिन्त्येति हि सस्मेरं जहास द्विजदारकः ।
ते नृपप्रमुखा येन बभूवुर्विसयाकुलाः ॥ ११०२ ।।


१. एतत्कोष्ठान्तर्गतपाठःख-पुस्तके नोपलभ्यतें. ३, 'निधने' ख.