पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७४
काव्यमाला ।

अस्तं च तिग्मकिरणे याते मुक्नभूषणे
अभूतां रोदसी भूरितिमिरैरावृताम्बरा ।। १०७७ ।।
ततो हरकिरीटेन माघन्मदनबन्धुना ।
शर्वरी शर्वरीशङ्खवलयेनेन्दुनोदितम् ॥ १०७८ ।।
केतकीदलतां कणे तनौ कर्पूरपूरताम् ।
हारतां च ययौ ज्योत्स्ना कुचयोर्हरिणीदृशाम् ॥ १०७९ ।।
अथाश्वत्थतरोर्मूले बालपल्लवसन्तरे ।
एलावल्लीलताकुळे राजा भेजे नवां वधूम् ।। १०८० ॥
सद्भावभोगसुभगं मन्दलज्जाभरं शनैः।
ततः प्रभाते विकटाकारदंष्ट्रोत्कटाननः ।
ज्वालामुखामियोऽभ्येत्य प्राह तं ब्रह्मराक्षसः ॥ १०८२ ॥
अस्मिन्ममाश्रमे पाप कन्यया दुविनीतया ।
अहो निज इबोद्याने रमसे विगतत्रपः ॥ १०८३ ॥
व्यात्ताननगताटालविकटैर्दन्तसंपुटैः ।
पिष्टो विभ्रष्टपुण्यस्त्वं राजन्न भवसि क्षणात् ॥ १०८ ॥
चन्द्रावलोकः श्रुत्वेति तमेव शरणं ययौ ।
देशकालाबनालोक्य प्रभवन्ति न पण्डिताः ॥ १०८५ ।।
नृपतौ प्रश्रयजुषि प्रयातः किंचिदाताम् ।
ज्वालामुखोऽवद्गाजशृणु येनाभिरक्ष्यसे ।। १०८६ ॥
सत्त्ववर्षः स्वयं पित्रा जनन्या च धृतो दृढम् ।
पादाभ्यां च कराभ्यां च त्वयैवोद्धृतमस्तकः ॥ १०८७ ॥
शिशुममोपहाराय कृताभ्युपगमः स्वयम् ।
विशस्यतां काननेऽत्र ब्राह्मणः सप्तमेऽइनि ॥ १०८८ ॥
नान्यथा तव मोक्षोऽस्ति सानुगस्येति तद्विराः ।
बादमुक्त्वा नरपतिः सभायों दुःखितो ययौ ॥ १०८९ ॥


१. पाण्डुताम् र