पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाङ्कपत्यास-वेतालपञ्चविंशतिका ।।
३७३
वृहत्कथामञ्जरी ।

कन्या तज्जननीं प्राप पिण्डस्याईति वापनम् ॥ १०६४ ॥
श्रुत्वेत्यलक्षितः स्कन्धाद्वेतालः प्रययौ जवात् ।
वृक्षावलम्बिनं तूर्णमानिनाय च तं नृपः ॥ १०६५ ॥
इत्येकोनविंशो वेतालः ॥ २१ ॥
स शीनगामिनं प्राह नृपं स्कन्धगतः पुनः ।
निःशब्देऽस्मिन्निरालोके दीर्घाध्वनि कथां शृणु ॥ १०६६ ॥
चन्द्रावलोक इत्यासीचित्रकूटपुरे नृपः ।
जहार भूरिरलौधः सदा रलाकरश्रियम् ।। १०६७ ॥
स मृगव्यरसाकृष्टः कदाचिद्धातरंहसा ।
तुरगेण हृतः प्राप वनं रुचिरपादपम् ॥ १०६८ ॥
तत्र फुल्ललताजालकलितालिकुलोत्सवे ।
विशालतालहिन्तालतमालश्यामलावलौ ।। १०६९ ।।
ददर्श दर्पणस्वच्छं सरो नीरजराजितम् ।
सातसिद्धवधूवृन्दकुचकुङ्कुमपिचरम् ।। १०७० ।।
समाश्वास्य कृताहारस्त बालबिशाङ्कुरैः ।
ददर्श कन्यां त्रैलोक्यसारं सारङ्गगामिनीम् ॥ १०७१।।
कटाक्षमधुपां हासपुष्पां किशलयाधराम् ।
स्तनस्तबकिनी मूर्ती काननस्येव देवताम् ॥ १०७२ ।।
तां वीक्ष्य सन्मथशरव्याकुलीकृत चेतनः ।
दत्तशाप इवानेकसायकाभिहतैमृगैः ।। १०७३ ॥
ने कप्तस्य तो ज्ञात्वा तत्सख्याभिहितां सुताम् ।
इन्दीवरप्रभा नाम सुभगां मेनकात्मजाम् ॥ १०७४ ।।
गत्वा यथाचे प्रणतः स्थितं निजतयोवने ।
मुनीन्द्र चन्द्रवदनां स चास्मै तां ददौ मुदा ॥ १०७५ ॥
ततः प्रतिनिवृत्तस्तामादाय तरुणी नृपः ।
मजन्माप सरस्तीरं संध्ययालिक्षितेऽहनि ।। १०७६ ।।