पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७२
काव्यमाला ।

गयाश्राद्धः कृतोत्साहो ब्राह्मणैः सहितो ययौ ॥ १०५१ ।।
सौहार्दस्योपकारस्य गुरुभक्तेः कुलस्य च ।
महतां हि वियोगेषु गयाश्राद्धे प्रतिक्रिया ॥ १०९२ ।।
स वाजिकुञ्जरानीकैः संछादितदिगन्तरः ।
नजन्मन्दाकिनी प्राप्य पितुश्चक्रे यथोचितम् ।। १०९३ ॥
ततः सर्वेषु तीर्थेषु दत्त्वा बहुधनो धनम् ।
गयामवाप कालेन पुण्यां कुलविभूषणः ॥ १०५४ ॥
ततः शास्त्रोदितं कृत्वा धर्मारण्येऽवसत्रयम् ।
राजकूपं समासाद्य पिण्डं क्षेप्तुं समुद्ययौ ॥ १०९॥
सूर्यप्रभस्य नृपतेः खगोत्रे नाभ्युदीरिते।
पुरोहितायतस्तत्र यो हस्ताः समुत्थिताः ।। १०६६ ॥
तीक्ष्य विस्मयाविष्टो मुहूर्त स्थगितक्रियः ।
किमेतदिति पप्रच्छ राजा वृद्धगुरून्द्विजान् ॥ १०९७ ।।
प्राहुः शिवमालोक्य श्रुतिस्मृतिविचक्षणाः ।
एकश्चौरस्व हस्तोऽयं लाञ्छितः शस्त्रशङ्कुना ॥ १०६८ ॥
पवित्रकालंकरणः पाणिरन्यो द्विजन्मनः ।
अयं पद्मनिभो राज्ञः करः कङ्कणभूषितः ॥ १०५९ ॥
निश्चयं नाधिगच्छामः कस्मै विण्डोऽर्यतामिति ।
राजा विप्रवचः श्रुत्वा संदेहाकुलितोऽभवत् ॥ १०६० ॥
वर्णयित्वेति वेतालः पप्रच्छ मापतिं पुनः ।
राजकस्सै स धर्मेण पिण्डस्तेन प्रदीयताम् ॥ १०६.१ ।।
इति पृष्टो नृपः प्राह स विप्रस्तस्य नो पिता ।
यो मूल्येन क्षपामेकां तन्मात्रा संगम व्यधात् ॥ १०६२ ।।
राजापि तस्य संस्कारकर्ता संप्राप्तकाञ्चनः ।
न पिता कर्मसंबन्धाद्राज्यभागी स केवलम् ॥ १०६३ ॥
चौर एव पिता तस्य यो दत्त्वा हेमसंचयम् ।


१, गिरा देत्र ख.

ते.