पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
शशाश्वत्थाम्-वेतालपञ्चविंशतिका
३७१
गृहत्कथामहरी

चौरस्याज्ञा च तो स्मृल्ला तदाह्रानेऽदिशत्सलीम् ॥ १०३८ ॥
स च द्विजो मृषा यातः पुत्रार्थ सामभाषतः ।
शलानि पञ्च रुपयाणां दीयतां व्ययिनो मम ।। १०३९ ।
इति श्रुत्वा सखी तौ दत्त्वा तच्छतकद्वयम् ।
एकक्षपाभ्युपगमादानिनाय द्विज रहः ॥ १०४० ।।
तं दृष्ट्वा कान्तमानीतं निशि शय्यागृहस्थिता ।
होत्सिता वणिवपुत्री नवं भेजे रतोत्सवम् ।। १०४१ ॥
अदृष्टपूर्वसभोगा वेश्याशतविलासिना ।
नीता प्रौदेन सा तेन रतौ कामपि निर्वृतिम् ॥ १०४२ ॥
तस्मिन्प्रयाते प्रच्छन्नं निशान्ते साभवत्क्षणात् ।
सस्ताङ्गी क्लान्तवदना कृशा मुकुलितेक्षणा ॥ १०४३ ।
ततः कालेन सा घुनमसूत रविवर्चसम् ।
कुन्तीव वर्णसंपूर्ण राजलक्षणलक्षितम् ॥ १०४४ ।।
तस्मिजाते वणिक्युन्नी स्वम् तजननी तथा ।
आदिदेश शिवः साक्षात्पुत्रोऽयं द्वारि भूपतेः ।। १०४६ ॥
हेमः सहसमाधाय मञ्चके त्यज्यता रहा ।
इति तद्वचसा सर्व चक्राते हे यशाश्रुतम् ।। १०४६ ॥
राजापि शंभुना स्वप्ने निर्दिष्टं प्राप्य तं शिशुम् ।
कौशेयवनसंछन्नं दिव्यरूपं सकाञ्चनम् ॥ १०४७ ।।
सूर्यप्रभस्य तनयः सोऽपि चन्द्रग्नभाभिषः ।
कालेन यौवनं प्राप कलाविद्याविशारदः ॥ १०४८ ॥
तं सर्वगुणसंपन्नं दृष्ट्वा पुत्रं स. पार्थिवः ।
चक्रवतिनियं तस्दै दत्त्वा वाराणसी ययौ ॥ १०४९ ॥
तपसा तत्र भूपाले प्रयाते शाश्वतं पदम् ।
चन्द्रप्रमः शोकसतो ज्ञात्वा चक्रे जलक्रियाः ॥ १०५० ।।
ततः स राज्य मन्त्रिभ्यो विन्यस्य पितृवत्सलः ।