पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७०
काव्यमाला ।

गतेऽहि मित्रदायिते शान्ते संध्याचितानले ।
तारास्थिसंचय कर्तुमिवेन्दुरुत्सृजन्करान् ॥ १०२६ ॥
दिशः सितांशुकच्छन्ना ज्योल्लापूरैः प्रचक्रिरे ।
शोकादिवोद्धसलिलक्रियां कुमुदपाण्डुराः ॥ १०२७ ।।
ततश्यौरोऽवददृष्ट्वा प्रकाशे तत्सुतां पुरः !
कन्यैषा दीयत्तां मह्यं सुवर्ण वितरामि ते ।। १०२८ ॥
मुमूर्षुविलसत्येष मा वदेति पृथुस्मिता ।
त्वया मात्रा वितीर्णेयभवाप्स्यति मदाज्ञया ।। १०२९ ।।
केनापि सह संगम्य पुत्रं त्राणं परत्र
मे
अस्ति काञ्चनलक्षं मे तेनेमां देहि कन्यकाम् ॥ १०३०॥
इति श्रुत्वा सुतां तस्मै सा प्रादाद्वारिपूर्वकम् ।
ददौ तरुतलन्यस्तं तस्मै सोऽप्यखिलं धनम् ।
पुत्रार्थे तामनुज्ञाय कन्यां चौरो व्यपद्यत ।। १०३१ ॥
ततो भर्तुर्वयस्यस्य गृहं प्राप्य सुपुत्रिकाः ।
सती कुमारदत्तस्य युक्त्या चौरं ददाह सा ॥ १०३२ ॥
अथ कालेन सा गत्वा निःशेषधनवजिते
सूर्यप्रभस्य नगरे तस्खौ हेमचयैः सुखम् ॥ १.०३३ ॥
तत्रस्था यौवनवती कदाचित्सौधमास्थिता ।
ऋतौ ददर्श पञ्चधुसुभगे द्विजपुत्रकम् ॥ १०३४ ॥
सोमस्वामीति विख्यातः सुवेषां सुरतप्रियः ।
यस्यां विलासरसिकः स विप्रो यौवनोन्मदः ॥ १०३५ ।।
तस्या हारावललिता नर्तकी लोकविश्रुता ।
हृदये तां समाधत्त विना भूरिधनव्ययम् ॥ १०३६ ॥
तथाभूतं व्यसनिनं सा दृष्ट्वा ते द्विजात्मजम् ।
मणिवपुत्री स्मराकान्ता बभूव ध्याननिश्चला ॥ १०३७ ।।
चला विहाय सा लज्जा मात्रे सबै त्यवेदयंत