पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९. शशाङ्कवत्याम-बेतालपञ्चविंशतिका ।।
३६९
बृहत्कथामलरी ।

सोऽथ स्कन्धस्थितः प्राह राजानं वेगगामिनम् ।
शृणु नाथ कथामेकां निशा यावन्न शीर्यते ॥ १०१३ ॥
बोलके लवपुरे सार्वभौमः क्षमापतिः ।
सूर्यप्रभाभिधानोऽभूधशाकुसुमकाननम् ।। १०१४ ॥
आख्यातविक्रमे तस्मिन्निखिला रक्षति क्षितिम् ।
वणिजस्ताम्रलिप्साया धनुदत्तस्य पुत्रिका ।। १०१५ ।।
विद्याधरी शापबलात्मानुषं भोगमास्थिता ।
हिरण्यवत्यां जायायामजायत सुलोचना ॥ १०१६ ।।
यत्कान्तिमधुना मत्तः प्रवलो विजयी स्मरः ।
सा यौवनं शनैः प्राए नामा धनवती तनुः ॥ १.१७॥
कालेन त्रिदिवं याते तस्याः पितरि गोत्रजैः ।
हतु द्रविणमाक्षिप्ता तद्भार्या राजसंश्रितैः ॥ १०१८ ॥
सा दुःखिता च भीता च गृहीत्वाभरणं निजम् ।
अलक्षिता निशि मायादुहित्रा सह विह्वला ॥ १०१९ ॥
ग्रान्ति सूर्ण निरालोके शोकैरिव तमोभरैः ।
विलुप्तदृष्टिः शूलस्थं जघानसेन सा नरम् ॥ १०२० ॥
स चौरः स्कन्धनिर्धातसंलातविपुलव्यश्रः ।
चुक्रोश हा हतोऽस्मीति पर्यन्तश्रासगद्दम् ॥ १७२१ ।।
वणिकपल्या स दृष्टोऽथ प्राह चौरोऽस्मि पापकृत् ।
इयं तृतीया मे रात्रिः शूलस्थस्यैव वर्तते ।। १०२२ ।।
तीव्रव्ययोऽपि जीवामि पातकैः पूर्वसंचितैः ।
अकृच्छ्रेण कथं यान्ति प्राणाः कलुष्कर्मणः ॥ १०२३ ।।
इत्युक्त्वा तेन पृष्टासौ निजदुःखमभाषत ।
ततः प्रणयशोकाता येन स्वपुरमत्यजत् ।। १०२.४ ॥
अत्रान्तरे शशी नित्यक्षयशोकादिवाधिकम् ।
उदयौं पाण्डुरः स्थूलः कपालशकलच्छत्रिः ।। १०२५ ॥


'ककोलके खः "कोलकं नाम पुरम्' इति कथासरित्सागरः,