पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
काव्यमाला ।

इति मायाविकल्पोत्थं स तन्माया व्यलोकयत् ।
अत्रान्तरे तदा तेन व्रतिना स विबोधितः ॥ १०००॥
स्मृत्वा वह्निप्रवेशाय सहसैव समुद्यतः ।
बन्धूनां करुणाक्रन्दराविणामशृणोद्गिरः ।। १००१ ॥
तनयोत्सङ्गया पत्न्या तया सार्धं मृगीदृशा !
प्रार्थ्यमानोऽपि यत्नेन वह्निमेव समाविशत् ॥ १००२ ॥
स्वस्यानुमरणोद्युक्ता दृष्ट्वा भार्याः समातरः ।
हा पापोऽस्मीति संचिन्त्य मुहूर्तं जडतां ययौ ॥ १००३ ॥
अनिर्दग्धतनुस्तेन पावकेन हिमत्विषा ।
उदतिष्ठन्नदीतीरादन्तर्जलजपा स्थितः ॥ १००४ ॥
एतदह्नश्चतुर्भागे दृष्ट्वा सर्वं सविस्मयः ।
न्यवेदयद्यथावृत्तं व्रतिने लम्बिताञ्जलिः ॥ १००५ ।।
दुःखाकुलस्ततः प्राह व्रती हा धिग्विकल्पितः।
त्वया विभ्रंशिता सिद्धिस्ता विद्या विस्मृता इति ॥ १००६ ॥
सोऽवदनिर्विकल्पेन त्वदादिष्टं कृतं मया ।
न जाने केन विघ्नेन न दग्धोऽहं कृशानुना ॥ १००७ ॥
इत्युक्त्वा शपथं चक्रे स विप्रो व्रतिनः पुरः ।
तपस्वी भ्रष्टविद्योऽथ तत्कारणमचिन्तयत् ।। १००८ ॥
कथयित्वेति वेतालः पप्रच्छ पृथिवीपतिम् ।
राजन्कृते विधानेऽपि सा विद्या किं न दृश्यते ॥ १००९ ॥
इति पृष्टो नृपः प्राह कृतं तेन यथोदितम् ।
किंतु भावोऽस्य तत्कालं बान्धवेष्वार्द्रतां ययौ ॥ १०१० ॥
तेन प्रणष्टा तत्कोपाद्गुरोरपि चिरस्थिता ।
विद्यासौ भावदुष्टानां विनश्यन्त्येव सिद्धयः ।। १०११ ॥
इत्याकर्ण्यैव वेतालः प्रययौ शिंशिपातरुम् ।
आनिनाय च तं भूयो निरुद्वेगो महीपतिः ॥ १०१२ ॥
इत्यष्टादशो वेतालः ॥ २०॥