पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्याम्-चेतालपञ्चविंशतिका ।]
३६७
बृहत्कथामञ्जरी ।

इति तेनार्थ्यमानोऽसौ प्रोवाच वितताशयः ।
विद्येयं तीव्रनियमश्छिन्नरागादिबन्धनैः ॥ ९८७ ॥
प्राप्यतेऽन्तर्जलजपादामुखं विघ्नकारिणीम् ।
सलिलान्तः प्रविष्टस्त्वं स्वप्नं द्रक्ष्यसि तत्क्षणात् ॥ ९८८ ॥
पुनः संजातमात्मानं बन्धुपुत्रकलत्रिणम् ।
तरस्थितेन च मया स्मारितो यदि विद्यया ।। ९८९।।
यहि प्रवेक्ष्यसि तदा विद्यामेनामुध्यसि ।
इत्युक्त्वा स ददौ तस्मै निजविद्यां नदीतटे ।। ९९० ॥
द्विजोऽपि प्राप्य तां जप्तुं विवेश सलिलान्तरम् ।
तत्रापश्यत्स विस्मृत्य सर्वमात्मानमात्मना ।। ९९१ ॥
हिरण्यपुर्यां संजातं शंकरस्य पुरोषसः ।
कालेन वर्धमानोऽसौ सह विद्याकलागुणैः ।। ९९२ ।।
भार्यां शशिप्रभां नाम लेभे विश्रम्भसाक्षिणीम् ।
युवा वसन्तसंतोषविश्रान्तिसदने वने ॥ ९९३ ॥
विजहार तया हारिवपुषा हरिणीदृशा ।
दासीशतवृतां तत्र रममाणां ददर्श सः ॥ ९९४ ॥
तां दैवयोगाद्दयितां सर्पेण निहतां भुवि ।
तां वीक्ष्य विललापासौ कन्दर्पविषमस्थितिः ॥ ९९५ ॥
हा प्रिये हा मनःसिन्धुचन्द्रिके हा सुलोचने ।
लक्ष्मीरिवाविनीतस्य क्व मे यातासि सुन्दरि ।। ९९६ ।।
इत्यश्रुगद्गदगिरा विलपन्तं चिराय तम् ।
आयुषोऽर्धं प्रयच्छास्यै देवदूतोऽभ्यघादिति ॥ ९९७ ॥
तच्छ्रुत्वा स ददौ तस्यै निजस्यार्धमथायुषः ।
अवाप्तजीवितां तेन तामालिङ्ग्य ननन्द सः ।। ९९८ ॥
ततः कालेन तनयं लेभे कमललोचनम् ।
स्नेहस्य मन्दिरं कान्तं प्रतिबिम्बमिवात्मनः ॥ ९९९ ॥


3. 'स युवा सूनुसंतोषविभा ख. २. "हारिहारिमा वपुषा दृशा' क. ३.