पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६६
काव्यमाला ।

इति श्रुत्वैव वेतालं प्रयातं शिंशिपातरुम् ।
पुनरादाय भूपालः प्रययौ पवनोपमः ॥ ९७४ ॥
इति सप्तदशो वेतालः ॥ १९ ॥
ततः स्कन्धस्थितो भूयः स बभाषे भुको विभुम् ।
शृणु राजन्कथामेकां कोऽन्यः कृन्तति संशयान् ॥ ९७५ ॥
चन्द्रप्रभाभिधानस्य नृपस्योज्जयिनीपतेः।
द्विजो बभूव नगरे देवस्वामी महाधनः ।। ९७६ ॥
चन्द्रस्वामीति तस्याभूत्तनयः श्रुतिसागरः।
द्यूतव्यसनसंसक्तो निष्कलङ्काः क्व वा गुणाः ॥ ९७७ ।।
स वृद्धकितवैर्धूर्तैर्व्याजाद्बहुधनं जितः ।
बद्ध्वा लताभिरनिशं ताडितो मौनमास्थितः ॥ ९७८ ॥
मृतोऽयमिति कालेन त्यक्तस्तैर्निर्धनः कृशः।
प्रययौ निशि निःशेषकोशक्लेशसभाश्रयः ॥ ९७९ ॥
स शून्यं देवनिलयं कथंचित्प्राप्य निःसहः ।
अपश्यत्तुङ्गखट्वाङ्गव्रतिनं भस्मभूषितम् ॥ ९८० ॥
दीनं तपस्विना तेन क्षुत्क्षामोऽथ निमन्त्रितः ।
तद्विद्यानिर्मितं भेजे स विप्रः काञ्चनं पुरम् ॥ ९८१ ॥
तन्त्र बालमृगाक्षीमिः शशाङ्कशतकान्तिभिः ।
कृतराजोपचारेण स लेभे स्नानभोजनम् ।। ९८२ ॥
विलोलमेखलादाम विरावयति सुन्दरम् ।
सुरतं सुरसुन्दर्यास्तत्र चित्रमवाप्तवान् ॥ ९८३ ॥
इति तद्विद्यया दिष्टमनुभूय समुत्थितः ।
प्रभाते तद्विरहितः पृथुशोकाकुलोऽभवत् ॥ ९८४ ॥
ततस्तत्कृपया चक्रे प्रत्यहं तन्महाव्रती।
निशि यदृश्यते सर्वं वासरेषु न किंचन ॥ ९८५ ॥
ततः कदाचिदाराध्य स विप्रस्तमभाषत ।
भगवन्देहि में विद्यामिमामीप्सितसिद्धिदाम् ॥ ९८६ ॥