पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६. शशाङ्कवत्थाम्-वेतालपञ्चविंशतिको ।।
३६५
वृहत्कथामञ्जरी ।

भजनं सर्वरत्ननामेकस्तं देवतापरः ।
गृहाणो मादिनीं कान्तां ललनारत्नमुत्तमम् ।। ९६१ ॥
इति श्रुत्वा विहस्यैनमुवाच वसुधाधिपः ।
अहो भक्तोऽपि मे भृत्योऽहितं नैव प्रभाषते ॥ ९६२ ॥
अयं लोको निरालोकः कलिकर्दमसंकुलः ।
नृपाणां साधुशीलानां चरितैर्हि प्रकाश्यते ॥ ९६३ ॥
तदहं पृथिवीपालो दण्डधारपदे स्थितः ।
अनीतिगहनावृत्तं व्यसनाधिं कथं भजे ॥ ९६४ ॥
कुले जन्मगुणाः सन्ति धर्मे यशसि चादरः ।
मतिश्च परदारेषु सत्यं न सदृशं मम ॥ ९६५ ।।
इति ब्रुवाणं राजानं सेनापतिरभाषत ।
उन्मादिनीं करोम्येनां नर्तकीं सुरमन्दिरे ॥ १६६ ॥
भजत्वेतां देवदासीं देव दोषो न विद्यते ।
इति तेनार्थ्यमानोऽपि तं निनिन्द रुषा नृपः ।। ९६७ ॥
ततः सेनापतौ याते तामेवोन्मादिनीं स्मरन् ।
यशः शरीरममलं विवेश भ्रष्टजीवितः ॥ ९६८ ॥
तस्मिन्नुपरते राज्ञि सेनानीः शोकविह्वलः ।
वह्निं विवेश सद्भक्तिः पर्यन्ते हि प्रदृश्यते ॥ ९६९ ॥
अभिधायेति वेतालः क्ष्मापालं पृष्टवान्पुनः ।
सेनानीभूमिपालाभ्यां कोऽधिकः सत्त्ववानिति ।। ९७० ।।
राजावदत्स्वामिभक्तिर्भृत्यानां किमिवाद्भुतम् ।
श्लाघ्यो नरेन्द्र एवैको प्राणांस्तत्याज न स्थितिम् ॥ ९७१ ।।
उद्दामभदसंरुद्धा लीलामीलितदृष्टयः ।
न शृण्वन्ति न पश्यन्ति राजानः कुञ्जरा इव ॥ ९७२ ॥
नारीणामिक सद्भावो दौर्जन्यं महतामिव ।।
विवेको भूमिपालानां कदा केनोपमीयते ।। ९७३ ॥


कीर्तिवासना ख. २. भूपर ख.. ३. 'पने