पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
काव्यमाला ।

बिम्बाधरारुणदलं लोललोचनषट्पदम् ।
सा बभार मुखाम्भोजं सुगन्धिस्मितशेखरम् ॥ ९४९ ।
तां वीक्ष्य चन्द्रवदनां मदनोद्यानकौमुदीम् ।
अहो नु वञ्चितोऽसीति प्रदध्यौ वसुधाधिपः ॥ ९५० ॥
राजधानीं प्रविश्याथ स्मरज्वरनिपीडितः ।
नोद्यानेषु न वापीषु न सौधेष्वाययौ धृतिम् ॥ ९५१ ॥
दुर्लक्षणेति यैरुक्ता दुर्नयैर्नयबुद्धिभिः ।
उन्मादिनी ब्राह्मणास्ते निर्गच्छन्तु पुरान्मम ॥ ९५२ ॥
इत्यादिश्य नृपस्तस्थौ दह्यमान इवानिशम् ।
कदलीदलशय्यासु श्रीखण्डसलिलोच्छ्रितः ॥ ९५३ ॥
भिषग्भिः सेव्यमानोऽपि स्वास्थ्यं न प्राप भेषजैः।
स्मरज्वरचिकित्सा हि दयितालिङ्गनामृतैः ॥ ९५४ ॥
विश्रम्भसाक्षिणैकेन सा तस्य विरहव्यथा ।
विराजनाम्ना विज्ञाता राजन्येन कथान्तरे ॥ ९५५ ।।
पृष्टोऽब्रवीन्नृपस्तेन सखे तां सुन्दरीं विना ।
सेनापतिवधूं प्राणाः क्वापि गन्तुं ममोद्यताः ॥ ९५६ ॥
यौवनोदयशीतांशुं तन्मुखं सुन्दरं दृशोः ।
धन्याः पश्यन्ति लावण्यरसायनतरङ्गितम् ॥ १५७ ।।
भूपते परदारेषु संगमो मे न शोभते ।
प्रमादान्नृपमूढानां मरणं हि प्रमेयता ॥ ९५८ ॥
(इत्युक्त्वा दीर्घमुष्णं च निःस्वस्थ क्षामविग्रहः ।
आनीयतां सेति वचो वयस्याहं न चक्ष्महे) ॥ ९५९ ॥
अन्येद्युर्ज्ञातवृत्तान्तः सेनापतिरुपेत्य तम् ।
स्वैरं बलधरो नाम सप्रणामं व्यजिज्ञपत् ॥ ९६० ॥


१॥ केव न.२ जिने ख. ३. प्रमाणायदरूढाना भर स. ४. एतत्कोष्ठान्त-

होतासकर व पुच्चीत गायलभ्यते.