पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवस्याम् वेतालपञ्चविंशतिका ]
३६३
बृहत्कथामञ्जरी ।

पुनस्तमादाय ययौ जवेन जगतीपतिः ।
स्कन्धस्थितः स च प्राह कथेयं श्रूयतामिति ।। ९३६ ।।
रूठकाख्ये पुरे राजा श्रीमानासीद्यशोधनः ।
मांधातृरामनहुषा यत्कीर्त्या विस्मृता इव ॥ ९३७ ।।
स कदाचित्समभ्येत्य विज्ञप्तो वणिजा भयात् !
ममास्ति कन्यकारत्नं देव तस्यास्ति भाजनम् ॥ ९३८ ।।
इति श्रुत्वा नरपतिर्द्रष्टुं तान्प्राहिणोद्द्विजान् ।
ते दृष्ट्वोन्मादिनीं नाम्ना तानुन्मादं समाययुः ।। ९३९ ।।
इमां भूमिपतिः प्राप्य प्रजाकार्यपराङ्मुखः ।
ध्रुवं नङ्गति रागेण द्विजास्तत्रेति चिन्तयन् ॥ ९४० ॥
ते नरेश्वरमभ्येत्य कन्यां दुर्लक्षणां जगुः ।
अनादृतां ततो राज्ञा सेनान्यै तां पिता ददौ ॥ ९४१ ॥
कदाचिदथ मत्तालिमालावलयिते मधौ ।
उत्फुल्लफुल्लधवले कोकिलालापमालिनि ॥ ९४२ ॥
मकरन्दपिशङ्गासु दिक्षु दक्षिणमारुतैः ।
कौङ्कुमेनाङ्गरामेण विलिखन्निव कामिभिः ॥ ९४३ ॥
राजा गजेन्द्रशैलस्थश्चम्पकापीडशेखरः ।
अशोकमालासच्छायो मधुमास इवापरः ॥ ९४४ ॥
पुरे चैत्रोत्सवं द्रष्टुं चचार कमलेक्षणः ।
विलोक्यमानः कान्ताभिः कुसुमायुधशङ्कया ।। ९४५ ॥
दुर्लक्षणेत्यनेनाहं प्रत्याख्यातेति मानिनी ।
उन्मादिनी ततो राज्ञः सौधात्तनुमदर्शयत् ॥ ९४६ ॥
नेत्रांशुभिः कन्दलिता पाणिभ्यां जातपल्लवा ।
बभौ मूर्तेव चैत्रश्रीः सा मुग्धस्मितपुष्पिता ।। ९४७ ॥
तारहारकरस्फीतफेनाङ्के कान्तिसागरे
तस्याः कटाक्षैरभवद्यमुनाभ्रान्तिविभ्रमाः ॥ ९४८ !!


'कनकाठ्यपुरे' ख, २. तामिव ..