पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६२
काव्यमाला ।

भवेऽस्मिन्पवनोद्भ्रान्तवीचिविभ्रमभङ्गुरे।
जायते पुण्ययोगेन परार्थे जीवितव्ययः ॥ ९२५ ॥
उक्त्वेति विसृजन्प्राणानविच्छायमुखच्छविः ।
स्फारेण शोकतमसा जगत्संपूरयन्निव ॥ ९२६ ॥
ततो मलयवत्यासीन्मरणे कृतनिश्चया ।
शोकस्तम्भेन संरुद्धा न चचाल पपात वा ॥ ९२७ ॥
अथ साक्षाद्भगवती गौरी तां भक्तवत्सला ।
समाश्वास्य सुधासारैस्तद्भर्तारमजीवयत् ॥ ९२८ ॥
चक्रवर्तिश्रियं चास्मै दत्त्वा क्षिप्रं तिरोदधे ।
ततो देवाः सगन्धर्वास्तस्य सत्त्वमपूजयन् ॥ ९२९ ॥
गरुडोऽप्यथ हृष्टात्मा वरदस्तेन याचितः ।
प्रददौ सर्वनागानां पुण्यामभयदक्षिणाम् ।
जीमूतवाहनो हृष्टः प्रययौ दयितासखः ॥ ९३० ॥
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपः ।
सत्त्ववाञ्शङ्खचूडोऽत्र किं वा जीमूतवाहनः ॥ ९३१॥
इति पृष्टो नृपः प्राह शङ्खचूडोऽत्र सत्त्वभूः ।
यो बालोऽपि निजौचित्यान्न चचाल महाशयः ॥९३२॥
जीमूतवाहनस्यैतदात्मदानं किमद्भुतम् ।
बोधिसत्वः स हि पुरा दत्तवान्बहुशस्तनुम् ॥ ९३३ ।।
तपस्तीव्रं यशः शुभ्रं श्लाघ्या श्रीः सत्त्वमद्भुतम् ।
निर्व्याजदानं च नृणां पूर्वाभ्यस्तं हि जायते ॥ ९३४ ॥
श्रुत्वेत्यलक्षितो गत्वा वेतालः शिशिपातरौ ।
तेनैव कण्ठपाशेन तथैवोल्लम्बितः स्थितः ॥ ९३५ ॥
इति षोडशो वेतालः ॥ १८ ॥


१. एतदुसरे ख-पुस्तके 'अजीवयच्चास्थिशेषान् इतान् प्राक्पन्नगेश्वरान् । चक्रव-

तिश्रिय देने ततो जीमूतवाहनः ॥ स प्राप्य काञ्चनपुर हिमाद्रिशिखरे, स्थितम् । पिचो से बा स्थित राज्ये राज दुयितासखः ॥ एवंविधः पाठ उपलभ्यते.