पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कचत्याम्-बेतालपञ्चविंशतिका ।।
३६१
बृहत्कथामञ्जरी ।

आस्वाद्यास्वाद्य तार्क्ष्योऽपि व्योम्नि जीमूतवाहनम् ।
क्षिप्रं स्थगितसंरम्भं प्रदध्यौ विस्मयाकुलः ॥ ९१२ ॥
अहो नु सत्त्ववानेष कोऽपि धैर्यमहोदधिः ।
भक्ष्यमाणस्य यस्याङ्गे जायन्ते पुलकाङ्कुराः ॥ ९१३
प्रसन्नवदनः क्षिप्रं जीवशेषोऽपि वर्तते ।
चिन्तयित्वेत्यपृच्छत्वं कोऽसीति विनतात्मजः॥९१४ ।।
स तं प्राह किमेतेन तव भक्षय मामिति ।
अस्मिन्नवसरे शङ्खचूडोऽभ्येत्य तमब्रवीत् ॥ ९१५ ॥
हा हा मा मा कृथास्तार्क्ष्य साहसं किं न पश्यति ।
अस्य विद्याधरेन्द्रस्य स्वस्तिकाङ्कमुरस्तटम् ॥ ९१६ ।।
अहं स नागस्ते भक्ष्यं पश्य जिह्वालताद्वयम् ।
विस्फूर्जद्विषफूत्कारं रत्नस्फीताः फणाश्च मे ॥ ९१७ ॥
इदानीमपि मे देहे मांसशोणितमस्ति भोः।
न च पश्यामि ते तृप्तिं स त्वं दूरे स्थितः कुतः । ९१८ ॥
इत्युक्त्वा विपुलं वक्षः प्रसार्योत्तानविग्रहः
तूर्णं मां भक्षयेत्याह स सुपर्णं पुनः पुनः ॥ ९१९ ॥
ततोऽस्थिशेषं तं त्यक्त्वा विषण्णे पन्नगेश्वरे ।
जीमूतवाहनवधूर्गुभ्यामाययौ सह ।। ९२० ॥
दृष्ट्वा मलयवत्यग्रे प्राणनाथं तथागतम् ।
मुमोहापूर्वशोकाग्निधूमेनेवान्धकारिता ।। ९२१ ॥
जीमूतकेतुस्तनयं विलोक्य सह जायया ।
पपात मूलनिर्लून इव चन्दनपादपः ॥ ९२२ ॥
तार्क्ष्येणाश्वास्यमानेषु तेषु जीमूतवाहनम् ।
संस्पृश्य पाणिना माता शुशोच करुणखनम् ॥ ९२३ ॥
मुहूर्ताच्छेषजीवोऽपि सोऽब्रवीज्जननीं शनैः।
मातर्विनश्वरस्यास्य किं शरीरस्य शोच्यते ।। ९९४


१. आई व नागराजरते. भक्ष्यो जिहानलद्वयम्' ख.