पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
काव्यमाला ।

रत्नांशुकेन संछन्नः स्थितस्तत्र व्यचिन्तयत् ।
सत्त्वोपकाराय पुनर्जन्म भूयान्ममेति सः ॥ ८९९ ॥
ततोऽदृश्यत दिग्दाहदारुणच्छविरम्बरे ।
प्रलयाग्निशिखालोलपक्षाक्षेपः खगेश्वरः ॥ ९०० ॥
तस्योरुवेगसंघट्टस्फूर्जद्धनधनारवैः ।
चुक्रोशाकालकल्पान्तसंत्रस्तेव जगत्त्रयी ॥ ९०१ ॥
ततः स तस्य धैर्याब्धिर्विद्याधरशिरोमणेः ।
जहार शिरसश्चूडं चूडारत्नेन मण्डितम् ॥ ९०२ ॥
ततः शरीरमादाय तस्य तुण्डेन खेचरः ।
गगने वलयाकारं चकार गतिविभ्रमम् ॥ ९०३ ।।
तच्चञ्चुक्रकचभ्रष्टं रक्तधारापुरःसरम् ।
अङ्के मलयवत्यास्तु चूडारत्नमथापतत् ॥ ९०४ ।।
तदृष्ट्वा वज्रसंरुग्णा शिरीषलतिकेव सा ।
जीमूतकेतवे तन्वी परित्रस्ता न्यवेदयत् ॥ १०५॥
स्वविद्यया परिज्ञाय स्वसूनो जीवितव्ययम् ।
भार्यास्नुषान्यां सहितः सौपर्णी तां शिलां ययौ ।। ९०६ ॥
अत्रान्तरे शङ्खचूडस्तूर्णं त देशमागतः ।
गोकर्णमर्णवतटे प्रणिपत्य मनोजवः ॥ ९०७ ॥
तत्रापश्यन्नखमुखोत्खातस्खलितशेखरम् ।
विद्याधरेन्द्रमादाय तार्क्ष्यमुत्पतितं दिवि ॥ ९०८ ॥
तं वीक्ष्य साश्रुनयनो विनाघातं विदारितः ।
आत्मानं तद्वधे मत्वा कारणं विललाप सः ॥ ९०९॥
हा सत्त्वविपुलौदार्यधैर्यगाम्भीर्यसागर ।
हा पूर्णकरुणाकोश हा निष्कारणबान्धव ॥ ९१० ॥
इति शोचन्स विपदमनुसर्तुं गरुत्मतः ।
जगाम जीवितत्यागदृढीकृतविनिश्चयः ॥ ९११ ॥