पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवस्याम्-वेतालपञ्चविंशतिका ।।:
३५९
बृहत्कथामञ्जरी।

 
मद्वियोगाग्निविधुरा समाश्वास्या विभो त्वया ।
(माता मे स्याद्दष्टोऽपि साधुः सुचिरबान्धवः ॥ ८८७॥
इति नागकुमारस्य वचः श्रुत्वा कुलोचितम् ।
जीमूतवाहनः माह बत चित्रं प्रभाषसे ।।८८८
वृद्धेयं त्वां विना पुत्रं कुलालंकरणं सखे।
कथं जीवति दुःखं हि जननीनां सुदुःसहम् ।। ८८९॥
एतां त्रातुं निजात्मानं रक्ष त्वज्जीविता ह्यसौ।
अस्या प्राणपरित्यागे विद्वन्मा कारणं भवः ।। ८९० ॥
शरीरेण मदीयेन द्वयं पाहि महामते ।
इत्युक्त्या शङ्खचूडस्य पादयोर्निपपात सः ॥ ८९१ ॥
फणिसूनुस्तमवदन्निर्बन्धाकुलितस्ततः ।
श्रुत्वा विवेचितं नैव मादृशामीदृशं वचः ॥ ८९२ ।।
न नाम शङ्खधवलं शङ्खपालं महाकुलम् ।
मयापि शङ्खचूडेन सत्वभङ्गात्कलङ्क्यते ॥ ८९३ ॥
आसन्नो गारुडः कालः स्वस्ति गच्छाम्यहं विभो ।
वधशैले प्रणम्याशु गोकर्णं शशिशेखरम् ॥ ८९४ ॥
उक्त्वेति मात्रानुगते याते तस्मिन्क्षणादभूत् ।
उच्चण्डाकाण्डकल्पान्तवातव्याकुलितं जगत् ।। ८९५ ।।
कालदोर्दण्डशङ्खाभाश्छटाघटितदिक्तटाः।
उत्तस्थुर्मकरास्फारकरालाः सागरोर्मयः ।। ८९६ ॥
ततश्चण्डांशुतप्तस्य सुमेरोरिव रश्मिभिः ।
अभूदौर्वानलेनेव पूरितं पिञ्जरं नमः !! ८९७॥
आगतं गरुडं ज्ञात्वा सूचितं पक्षमारुतैः
आरुरोह मदाबद्धः शिला जीमूतवाहनः ॥ ८९८ ॥


१. एतत्कोवान्तर्गत पाठ; ख-पुस्तके त्रुटितः. ३. 'न मया' ख. ३. चिन्थ्यौ .

'कालांशैर्दण्डशङ्गामा स्पष्टा घटित दिक्तटाः स. ५. 'रोत्फुल्लाः क ख.