पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५८
काव्यमाला ।

भीतेन नागराजेन प्रेषितोऽसि गरुत्मते ।
सुकुमारशरीरेऽसिकस्ते त्राणं भविष्यति ॥ ८७५ ॥
इति पुत्रमुखाम्भोजमाघ्राय विललाप सा ।
जीमूतवाहनोऽन्थेत्य तामुवाच कृपाकुलः ॥ ८७६ ॥
मातः स्थितोऽसि ते पुत्रपरित्राणकृतक्षणः ।
परोपकारः संसारे निःसारे प्राप्यते कुतः ॥ ८७७ ॥
अयमेव सदापाये काये सारसमुच्चयः ।
यत्प्रयाति परायासत्राणसत्पुण्यपात्रताम् ॥ ८७८ ॥
इत्याकर्ण्य परित्रस्ता सुपर्णाशङ्किनी ततः
पुत्रमासाद्य साकम्पा सा पुरः प्रणनाम तम् ॥ ८७९॥
नाहं भुजङ्गाधिपतिर्वितीर्य निजविग्रहम् ।
विद्याधरो रक्षिताहं त्वत्पुत्रस्येति सोऽभ्यधात् ॥ ८८० ॥
वृद्धावदत्तं त्वमथ (शङ्खचूडाधिको मम ।
बहुकल्पशतं धन्यां रक्ष सौप्यामिमां तनुम् ।। ८८१ ॥
इति तस्यां ब्रुवाणायां शङ्खचूडोऽतिविस्मितः ।
समभ्यधात्स्मितमुखो ललाटरचिताञ्जलिः) || ८८२ ॥
अभिनन्दितमेतत्ते दर्शनं सत्त्वशालिनः ।
पूर्णेन्दुरमृतोद्गारिकिरणः कस्य न प्रियः ॥ ८८३ ॥
अहो नु त्वं निजान्प्राणान्मदर्थं दातुमुद्यतः ।
सहामहे कथं नाम तृणार्थे रत्नविक्रयम् ॥ ८८४ ॥
कियन्तो न भवाम्भोधौ जाता याताश्च मद्विधाः ।
कौस्तुभस्येव भवतः क्व दृष्टः पुनरुद्भवः ॥ ८८५ ॥
सत्त्वोज्ज्वलं तवैवेतन्मुखेन्दौ शोभते बचः ।
अन्धकायस्य जगतामनास्थाने तु पातितम् ॥ ८८६ ॥


१. एतरको धाराहपाठः ख पुस्तके त्रुटितः, १. "सागरः ख. ३. सोऽई सहे

कण व वित्त अाराध जातामनु सयाचितम सा.