पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशावत्याम्-बेतालपञ्चविंशतिका ।]
३५७
बृहत्कथामञ्जरी

ततो महोत्सवानन्दि विद्याधरशतानुगः ।
परिणीय प्रियतमां सोऽभूत्संभोगतत्परः ।। ८६२ ॥
प्रेयस्याः सोऽग्रजं तुल्यरूपं मित्रावसुं व्यधात् ।
विलासकेलिलीलासु प्ररूढप्रेमभोजनम् ॥ ८६३ ॥
कदाचिदथ विश्रम्भात्संमित्रावसुना सह ।
चचार जलधेर्वेलावनान्तमवलोकयत् ॥ ८६४ ॥
ददर्श तत्र शिखराकारं नागास्थिसंचयन् ।
युगक्षये महाभूतं करकैरिव पूरितम् ॥ ८६५ ॥
किमेतदिति तेनाशु पृष्टो मित्रावसुस्ततः ।
उवाच गरुडेनात्र भक्षिता भुजगोत्तमाः ॥ ८६६ ॥
सर्वक्षयभयात्तार्क्ष्यस्ततो वासुकिनार्थितः ।
विसृष्टं तेन वारेण सदैकं नागमत्यसौ ॥ ८६७ ॥
अयमस्थिचयस्तेषामद्रिकूटसमुच्छ्रयः ।
उक्त्वेति जनकाहूतस्तूर्णं मित्रावसुर्ययौ ॥ ८६८ ।।
जीमूतवाहनोऽप्येकः सर्पेषु करुणाकुलः ।
चचार तत्र निःसारं संसारं कलयन्धिया ॥ ८६९।।
ततो ददर्श करुणाक्रन्दशुष्काधराननाम् ।
वृद्धाङ्गनां कुमारेण सान्त्वमानां मुहुर्मुहुः ।। ८७० ॥
पूर्णेन्दुसुन्दरमुखं कान्तिधूतदिगन्तरम् ।
स्फुरत्स्फीतफणारत्नपुञ्जपिञ्जरिताम्बरम् ।। ८७१ ।।
आनन्दमिव कासारं संतोषमिव जङ्गमम् ।
तं वीक्ष्य तनयं वृद्धा (विललोपाश्रुगद्गदम् ।। ८७२ ॥
हा पुत्र नयनानन्दसौन्दर्यामृतदीधिते ।
शङ्खपालमहावंशव्यक्तमुक्तामणीयित) ॥ ८७३ ॥
हा शङ्खचूड लावण्यनिधानमिदमेव से !
वपुर्गरुडचञ्च्वग्रवज्रपातासहं कथम् ।। ८७४ |


१. 'योतिदिगन्तरम् ब. २. एतत्कोष्टान्तर्गतपाठः ख-पुस्तके त्रुटितः