पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५६
काव्यमाला ।

भजन्ति सततं सन्तो विद्यार्जनपरिश्रमम् ।
येन न व्यसनापाते मुह्यन्ति मतिविप्लवैः ।। ८४९ ॥
इति श्रुत्वा विनिःश्वस्य तप्तो जीमूतवाहनः ।
क्षणं विलोक्य वसुधां स्वस्थोऽस्मीति तमभ्यघात् ।। ८५० ॥
प्रत्यग्रचन्दनदलैः कल्पिते सुहृदा ततः ।
निषण्णः शयने प्राप न स संतापतानवम् ।। ८५१ ॥
अत्रान्तरे मलयवत्यभ्येत्य विरहासहा ।
गौर्याश्रमे तरुलताप्रान्ते पाशमकल्पयत् ।। ८५२ ॥
ततः प्रणम्य गिरिजां हा हतेति विलप्य सा।
विधाय साश्रुनयनास्तत्र बाला मृगाङ्गनाः ॥ ८५३ ।।
जीमूतवाहनो भूयादन्यस्मिन्मे स जन्मनि ।
विभुरित्यभिधायाभूत्सा शापाभिमुखी क्षणात् ॥ ८९४ !!
तच्छ्रुत्वा सुहृदाहूतस्तूर्णं जीमूतवाहनः ।
छन्नस्तरुलताजालैः शुश्राव च ददर्श च ।। ८५५ ॥
ततो भगवती प्राह पुत्रि मा साहसं कृथाः ।।
भविता चक्रवर्ती ते भर्ता जीमूतवाहनः ॥ ८५६ ॥
इति देवीवरं प्राप्य सा ददर्श पुरःस्थितम् ।
जीमूतवाहनं हर्षलज्जामुकुलितेक्षणा ॥ ८५७ ।।
अत्रान्तरे समभ्येत्य चेटिका तां व्यजिज्ञपत् ।
दिष्ट्या विवर्धसे देवि कल्पितस्ते महोत्सवः ॥ ८५८ ॥
त्वद्भ्रात्रा जनकादेशादद्य विद्याधरात्मजः ।
जीमूतकेतुपुत्राय दातुं त्वां सादरोत्थितः ॥ ८५९ ।।
तदेहि कल्पितोऽथैव विवाहो जनकेन ते ।
इति श्रुत्वैव सा तूर्णं प्रययौ चारुहासिनी ॥ ८६० ॥
जीमूतवाहनोऽप्याशु समेत्य पितुरन्तिकम् ।
उवाह मङ्गलोदारविवाहोचितभूषणम् ॥ ८६१ ॥