पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवल्या वेतालपञ्चविंशसिका।
३५५
वृहत्कथामञ्जरी ।

श्रीखण्डरससंसिक्तकदलीदलशालिनी
बभूव गाढसंतापक्लान्ता सिद्धपतेः सुता ।। ८३६ ॥
न जलार्द्रैर्न वसनैन हारैर्न सरोरुहैः ।
तस्या न चन्द्रकान्तैश्च शशाम मदनानलः ॥ ८३७ ॥
सा लज्जातरला प्राह तां सखीं पार्श्ववर्तिनीम् ।
अयि त्वमेव मे तन्न कान्तदर्शनसाक्षिणी ।। ८३८ ॥
किं करोमि क्व गच्छामि कस्यैतत्कथयामि वा ।
अयं कन्याविरुद्धो मे क्रमः कानेन निर्मितः ॥ ८३९ ॥
(प्रत्यादिशन्ति संदेशं प्रयान्ति स्वयमेव वा ।
प्रियं प्रणयशालिन्यो निर्लज्जा बत योषितः) ।। ८४० ॥
किं वा संदिश्यते तस्मै लीलया हतचेतसे ।
युवासौ भाग्यसंपन्नो वाचः कस्य शृणोति वा ॥ ८४१ ॥
विज्ञप्तोऽसीति कार्पण्यं वदतीति प्रगल्भता ।
एहीत्याज्ञापलेपोऽयं प्रियोऽसीति विलज्जता ॥ ८४२ ॥
न जीवामीत्यसदृशं त्वत्प्रियास्तीत्यलक्षितम् ।
आगच्छामीत्यनुचितं स्मरार्तास्मीति चापलम् ॥ ८४३ ॥
न जाने सखि किं वाच्यो दैवादासादितोऽपि सः ।
सर्वथा नष्टसार्थेऽस्मिन्मरणं शरणं मम ।। ८४४॥
वयस्यामभिधायेत्थं सा निनायाशु निर्झरैः ।
संतापशोककठिनं कुचचन्दनमार्द्रताम् ॥ ८४५ ।।
जीमूतवाहनोऽप्यस्मिन्नन्तरे विरहाकुलः ।
तस्मिन्गौरीवरोद्याने चचारेन्दुमुखीं स्मरन् ।। ८४६ ।।
स कामभुजगाक्रान्तः कौमुदीविषमूर्छितः ।
संतापविह्वलो भेजे वातूलतरलां स्थितिम् ।। ८४७ ||
तं ध्यानमूकनभ्येत्य क्षामं मधुकरः सखा ।
उवाच विप्लवः कोऽयं तवापि मनसः सखे ।। ८४८


१. एतरकोष्टान्तर्गतपाठःख-पुस्तके द्वितः