पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
काव्यमाला ।

न्यस्तं मथि मनः पाल्यमेतदत्यन्तपेशलम् ।
इतीव कान्तं सा प्राह व्रजन्ती नूपुरारवैः ।। ८२३ ॥
ददौ त्रिकपरावृत्तिलक्षितैकस्तनी मुहुः ।।
तस्मै दृशं सा धम्मिल्लमधुपासारणच्छलात् ॥ ८२४ ।।
वेपथुस्तम्भसंरुद्धा तन्वी कृच्छ्रेण सा ययौ
सुकुमारेण मनसा सा वहन्ती महाभुजम् ॥ ८२५ ॥
निजमन्तःपुरं प्राप्य निःश्वसन्ती श्लथांशुका ।।
पपात शयनोत्सङ्गे दष्टा मकरकेतुना ।। ८२६ ॥
तस्याः प्रववृधे क्षिप्रं स कोऽपि विरहानलः ।
यः सिच्यमानो बाष्पाम्बुपूरैरुज्जृम्भतेऽधिकम् ॥ ८२७ ॥
अत्रान्तरे जलनिधिं प्रविष्टे वासरेश्वरे।
बभूव रागिणी संध्या नलिनीवनशालिनी ।। ८२८ ॥
पद्मसंकोचचकिता बभ्रमुर्भ्रमरा भुवि ।
संध्यया सपदि व्युप्तास्तमोबीजकणा इव ॥ ८२९ ॥
तिमिरैरञ्जनश्यामैः श्यामावदनकुन्तलैः ।
चक्रवाकीवियोगाग्निधूनाभैरुत्थितं ततः ॥ ८३० ॥
नीलाम्बुजैरिवोत्सृष्टं भ्रमरैरिव मूर्छितम् ।
नीलकण्ठैरिवोङ्गीर्णं चचार सुचिरं तमः ॥ ८३१ ॥
अथादृश्यत चण्डीशजटामण्डलमण्डनम् ।
श्यामाकर्पूरतिलको रोहिणीरमणः शशी ॥ ८३२ ॥
दिक्कान्ताकेलिमुकुले निशामौक्तिककुण्डले ।
सरराजसितच्छत्रे शशिनि स्मेरजृम्भिते ॥ ८३३ ॥
उत्फुल्लकुसुमामोदनन्दितेन्दीवरा मुहुः ।
पद्मिनीविरहोच्छ्वासा इव बालानिला ववुः ॥ ८३४ ॥
योषितां हृदयाकाण्डभङ्गयत्रोपले विधौ ।
पौर्ति प्रयाते पञ्चेषुवह्निकुण्डमहोल्मुके ।। ८३५ ।।


ख. बदनों ख.