पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२.कथामुखे-श्रीदत्ताख्यायिका ।।
३७
वृहत्कथामञ्जरी

कौसुम्भसलिलस्थाने विहिते सरसि क्षणात् ।
सरोमृगदशाधीमान्को हि देवे पराङ्मुखे ॥ ४२ ॥
ततस्तामामिषधिया सुपर्णकुलसंभवः ।
जहार विकटः पक्षी मुग्धां दग्धविधेर्वशात् ॥ १३ ॥
नीत्वा विहायसा दूरं स तामचलसंनिमः ।
तत्याज मोहविवशामुदयाचलकन्दरे ॥ ४५ ॥
लब्धसंज्ञा शनैः कम्पविलोलतनुवल्लरी ।
कीणोत्पला इव दिशश्चकार चकितेक्षणैः ॥ ४६॥
तस्याः शोकानिलोत्कम्पिकुचपर्यन्तपातिनी ।
असूत्रहारतां प्राप क्षणमश्रुकलावली ॥ ४६॥
हा राजन्मन्दपुण्याहं न तु द्रक्ष्यामि ते मुखम् ।
इत्युक्त्वा गजसिंहानां पुरोऽभूद्वधकाङ्गिणी ॥ ४७
सा स्वयं केसरिंगजैस्त्यक्ता न निधनं ययौ ।
विपद्विसंकटे काले मरण लभ्यते कुतः ॥ १८ ॥
तस्याः करुणमाकर्ण्य ऋन्द्रितं सासुलोचनाः ।
मृगा विच्छिन्नरोमन्थनिःस्पन्दगतयोऽभवन् ॥ १९ ॥
ततो यदृच्छया यातस्तां विलोक्य तथा स्थिताम् ।
निनाय करुणासिन्धुलिपुनतपोवनम् ॥ १० ॥
सुतेवाश्वासिता तंत्र कृपया जमदमिना ।
असूत तनयं काले सेनान्यमिव पार्वती ॥ ११ ॥
तस्याकाशभवा वाणी चकारोदयनाभिषाम् ।
निजवंशशशाङ्कास्य भविष्यचक्रवर्तिनः ॥ ११ ॥
आश्नमे स मुनीन्द्रेण कृतचूडादिकरततः
ववृधे बालकशशी सह मातुर्मनोरथैः ॥ १३ ॥


१. अत्र, किंचित्रुटितं भवेत. १. किणा' इति भवेत. ३. 'नाथाकृतपु' ख.

'राज' ख५.: "सर्य न.६ धा' खा.७."ख,