पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
काव्यमाला ।

स्मरार्तौ मदनाक्रान्तः शापात्मय॑त्वमागतः
सैव ते. ललना राजन्भाविनी नो वरादिति ॥ ३० ॥"
श्रुत्वा तदुत्सुकमनाः समामन्यः शचीपतिम् ।
कौशाम्बी प्रस्थितो हृष्टः स तिलोत्तमा पथि ।। ३.१ ॥
स्मरस्मेरं किमपि तां भाषमाणामनन्यधीः ।
ध्यायशतक्रतुवो ना लुलोके महीपतिः ॥ ३२ ॥
सा शशाप नृपं सुश्रूरनादरतिरस्कृता ।
सौभाग्यमत्ता मानिन्यो न सहन्ते च धीरणाम् ॥ ३३ ॥
चतुर्दशसमा भूवाद्विपयोगी हृदिस्थया ।
तव राजनिति तया शप्तः प्रायान्निजां पुरीम् ॥ ३४ ॥
ततः कालेन तनयां क्षमापतेः कृतवर्मणः ।
तामाससाद दयितां सर्वस्वं पुष्पधन्वनः ॥ ३५ ॥
गावति समासाद्य दिलासतरुवल्लरीम् ।
विनमाम्भोधिलहरी ननन्द मदनद्युतिः ॥ १६ ॥
सा तसादर्भमाधाय भवानीवेन्दुशेखरात् ।
प्राण्डिमा शशिलेखेव पीयूषक्षालिता बभौ ॥ ३७॥
अत्रान्तरे मन्त्रिवरः सेनानीश्च महीपतेः ।
द्विजो नर्मवयस्यश्च पुत्रान्पाप कुलोचितानः ॥ ३८ ॥
संती घुमेधरस्वासोच्छवासान्योग धरायणः ।
रुमण्वान्सुप्रतीपस्य द्विजस्य च वसन्तकः ॥ ३९ ॥
सुन्दरी दौहृदव्यक्तेरथ पौरंदरीय दिक्।
रसबा राजमहिनी रजनीकरणाभिणी ॥ ४० ॥
पत्यौ समीहितकृतिवच्छया अनिरुद्ययौ ।
तस्या रक्तसरःस्नाने तच्चामन्यत भूपतिः ॥ १ ॥


१ चयिता स... न.चिर दि ख. ३. भावयन ती व.