पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५२
काव्यमाला ।

मग्नो नामीह्रदावर्ते हरकोपानलाकुलः ।
कामोऽनुमीयते यस्या रोमालीधूम्रलेखया ॥ ७९७ ॥
तारहारांशुमुकुलैर्जातौ यस्याः पयोधरौ । ।
चक्रवाकाविव मुखासक्तबालबिसाङ्कुरौ ।। ७९८ ।।
यस्या वलयकेयूरनीलरत्नांशुभोगिभिः ।
तारुण्यचन्दनलताललिते बभतुर्भुजे ! ७९९ ॥.
स्मरबालवसन्तेन कृतेवाधरकान्तिभिः ।
श्यामा ययौ वनस्था या यस्याः किशलयावलिः ॥ ८०० ।।
सुस्पष्टनासावंशोच्चललाटच्छत्रमाश्रिताः ।
यत्कटाक्षच्छटाः प्रापुरुत्पलोद्दामदायताम् ॥ ८०१ ॥
वदनाम्भोजभृङ्गालीं या बभारालकावलीम् ।
प्रशस्तिमिव कामेन न्यस्तां सौभाग्यभूपतेः ॥ ८०२ ॥
तां दृष्ट्वा विस्मयोत्फुल्ललोचनतन्मयोऽभवत् ।
क्षिप्रं नवावतारेण स्मरेण तरलीकृतः ।। ८०३ ॥
विस्तीर्ण सुकृतिप्राप्यं तारुण्यस्तनपादपम् ।
प्रशान्तविग्रह कथं न्यस्तचापमिव स्मरम् ।। ८०४ ॥
लक्ष्मीविलासभवनं भुजस्तम्भविभूषितम् ।
सापि लावण्यनलिनी राजहंसं विलोक्य तम् ॥ ८०६ ॥
लज्जामज्जत्तनुलता कम्पसंपत्तरङ्गिता।
असूत्रमौक्तिकलता बभूव स्वेदबिन्दुभिः ॥ ८०६ ॥
क्षिप्रं पुलकिता तस्या विरराज कुचस्थली ।
विशद्भिरिव पुष्पेषुशरैराकीर्णकेसरा ।। ८०७ ॥
ततः सहेलं तामेत्य प्राइ जीमूतवाहनः ।
प्रागुर्चुपायनकर्पूरमिव दन्तांशुभिर्दिशन् । ८०८ ॥
आचाररुचिरः कोऽयं क्रमस्तव सुलोचने
संभाष्य तेन यत्पूर्वस्वागतं प्रणयी जनः ॥ ८०९ ॥


सुर, इन