पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्--वेतालपञ्चविंशतिको ।
३५१
बृहत्कथामञ्जरी।

यत्र विद्यावरवधूमधुगण्डूषनिर्भरैः ।
जृम्भेवारम्भि बकुलैः पुष्पाननविकाशिभिः ॥ ७८५.।।
यत्र दिव्याङ्गनातुङ्गस्तनोत्सङ्गतरङ्गिणः ।
मन्दारमकरन्दाद्याः सुन्दरा वान्ति वायवः ।। ७८६ ॥
यत्रोद्भूतालिपटलं विलोक्य धनविभ्रमम् ।
नृत्यन्ति हेमकदलीकुञ्जेषु शिखियोषितः ।। ७८७ ।।
उत्कण्ठाकोमलं यत्र गीतं किन्नरयोषितः ।
शृण्वन्ति निश्चलाः साश्रुनयना हरिणाङ्गनाः ॥ ७८८ ॥
ददर्श तत्र कैलाशशिखरस्फारविभ्रमम् ।
गङ्गायितपताकाङ्कं गौर्याः प्रासादमुन्नतम् !! ७८९ ॥
स्वयमेत्य सितच्छायास्पष्टीकृतदिगन्तरम् ।
(स्थितं दुहितृवात्सल्यादिव तत्र हिमाचलम् ) ॥ ७९० ।।
देवीगर्भगृहे तस्मिन्गीतवीणास्वनाश्रितम् ।
शुश्राव श्रोत्रपीयूषं हृदयानन्दनिर्झरम् ॥ ७९१ ।।
तच्छ्रुत्वा कौतुकाकृष्टः प्रविश्य गिरिजालयम् ।
कन्यामपश्यत्संसारसारं सरसिजेक्षणाम् ।। ७९२ ।।
प्रबालपल्लवच्छायपादाम्बुजयुगं बभौ ।
रागसागरसंचारादिव लग्नारुणद्भवम् ।। ७१३ ॥
लावण्यनलिनीबालमृणालयुगलोपमे ।
जङ्घाकाण्डद्वये तस्याः कान्तिहंसी व्यरोचत ।। ७९४ ॥
विलासबर्हिकदलीदण्डावूरू बभार सा ।
पुष्पायुधपुरीकान्तदन्ततोरणबिभ्रमे ॥ ७९५ ॥
पुलिने कान्तिसरितः पर्यङ्कशयने रतेः ।
मेखलापरिस्वं यस्या जवनं मान्मथं पुरम् ॥ ७९६ ॥


ख. २. 'पुष्पाहतालि न. ३. एतत्कोष्टान्तंगतपाउ स-पुस्तके त्रुटितः.