पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३५०
काव्यमाला ।

कान्ताकटाक्षचंपलं चपलं यौवनं धनम् ।
जीवितं चेति स ध्यात्वा तमर्थिभ्यरतरुं ददौ ।। ७७२।
तेन दारिद्र्यनाशाय जगति प्रतिपादितः ।
हेम्ना संपूर्य निखिलं क्षणात्सोऽन्तर्दधे द्रुमः ।। ७७३ ॥
कुलक्रमागते तस्मिन्कल्पवृक्षे व्ययीकृते ।
अपूर्वत्यागिना तेन त्रिलोकी विस्मयं ययौ ॥ ७७४ ॥
(ज्ञात्वा तं प्रतिसामन्ता रहितं सुरशाखिना ।
तद्राज्यहरणोद्योगे बभूवुः संहता मिथः ।। ७७५ ।।
जीमूतवाहनो ज्ञात्वा विद्यया तद्विचेष्टितम् ।
तद्वेधाकूणितमना राज्यं तत्याज निस्पृहः ।। ७७६ ॥
स पित्रा सह मात्रा च तपसे सिद्धसेवितम् ।
मलयं खेचरवधूविलासनिलयं ययौ) ॥ ७७७ ।।
खेल्लद्भुजङ्गकटकं सिद्धमण्डलसेवितम् ।
चण्डीपतिमिवोत्सर्पन्नीलकण्ठप्रभावनम् । ७७८ ॥
संचरत्सिद्धललनाचरणाम्भोजकान्तिभिः ।
बिभ्राणामिव पर्यङ्कसक्ताब्धेर्विद्रुमावलीम् ।। ७७९ ।।
निर्भरस्मेरहाराङ्कमकरन्दोज्ज्वलांशुकम् ।
स त्वाद्यं भूभृतां धुर्यं चन्दनागरुभूषितम् ॥ ७८० ॥
स प्राप्य सर्वसिद्धीनामाश्रयं विषयं श्रियः ।
पित्रोः सपर्यानिरतस्तस्थौ जीमूतवाहनः ।। ७८१ ॥
कदाचिदय विश्रम्भसारिणा सुहृदा सह ।
स्वैरं मधुकराख्येन चचारोपदनेषु सः ॥ ७८२ ।।
स तत्र कान्तं कुसुमकरन्दं नाम काननम् ।
प्रविश्यापश्यदुच्छ्वासिसौरभाः पुष्पवल्लरीः ॥ ७८३ ॥
यत्र खेचरनारीणां तारनूपुरराविभिः ।
अशोकाश्चरणाघातैरुत्फुल्ला भान्ति रागिणः ॥ ७८४ ॥


१. विक्षेपपल' ख. १. एतत्कोहान्तर्गतपाठःख-पुस्तके त्रुटितः ३. '

तख सै