पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९ शशाङ्गवत्याम्-वेतालपञ्चविंशतिका ।
३४९
बृहत्कथामञ्जरी।

गान्धर्वेण विवाहेन प्राप्तैषा सुन्दरी मया ।
अन्तर्वती च संजाता मत्त एव सुमध्यमा ।। ७६०॥
इति श्रुत्वा शशी प्राह सेयं राज्ञा ममार्पिता।
कन्यका जनकाधीना इति किं न श्रुतं भया । ७६१ ॥
इत्थं तयोस्तद्विवादे मूलदेवोऽपि संशयम् ।
अवाप्य निर्णयस्थाने नो चेकिंचिदधोमुखः ॥ ७६२ ॥
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् ।
सा भार्याः कस्य धर्मेण संज्ञायो वार्यतां मम ।। ७६३ ।।
इति पृष्टो नृपः प्राह शशी धर्मेण तत्पतिः ।
छन्नकामी मनःस्वामी चित्रा तस्मै न सार्पिता ॥ ७६४ ॥
श्रुत्वेत्यन्तर्हितः सोऽथ तरौ पुनरलम्बत ।
सोऽपि स्कन्धस्थितः प्राह कथां शृणु महीपते ।। ७६५ ।।
इति पञ्चदशो वेतालः ॥ १७ ॥
'अस्ति श्रीकाञ्चनपुरी मूर्ध्नि गौरीगुरोगिरेः ।।
रत्नप्राकारकिरणैरश्रान्तोल्लिखिताम्बरा ।। ७६६ ॥
जीमूतकेतुस्तस्याभूद्विद्याधरपतिः पतिः ।
यस्याभूच्छेषयशसः प्रख्याता काप्यनन्तता ।। ७६७ ।।
विद्याधरेन्द्रदुहिता भार्याभूत्तस्य संमता ।
कान्ता कनकवल्याख्या ख्यातिक्षेत्रं मनोभुवः ॥ ७६८ ॥
तेनाजनि सुतस्तस्यां कल्पवृक्षवराद्वरः ।
जीमूतवाहनो नाम समूहो गुणसंपदाम् ।।
सोत्कण्ठं काञ्चनलताकुञ्जेष्वमरभूमृतः ।
गायन्ति त्यागसुभगं यस्य स्वर्गाङ्गणे यशः ॥ ७० ॥
तं सर्वगुणसंपन्नमभिषिच्यात्मजं पिता
कल्पवृक्षं ददावस्मै नानासिद्धिसुधाफलम् ॥ ७७१ ॥


१. 'व' स..२. इतः प्राक् ख-पुस्तके 'तं क्षितेः पतिरादाय संप्रायादरडोपमः।

एवं पाठ उपलभ्यते.