पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
काव्यमाला ।


तदुत्सवे मातुलेन राजपुत्री निमन्त्रिता ।
कूटसख्या तया सार्धं प्रययौ जनकाज्ञया ।। ७४९ ॥
तत्र मन्त्रिसुतो दृष्ट्वा कान्तां तां कूटकन्यकाम् ।
बभूव. मन्मथोन्मादविधुरो नष्टचेतनः ॥ ७६० ॥
तं तु मूर्खनृपो ज्ञात्वा वल्लभं मन्त्रिणः सुतम् ।
विप्रनिःक्षेपितां कन्यां तस्मै सभ्यगिरा ददौ ।। ७६१ ॥
वितीर्यमाणा सा प्राह क्रमः कोऽयं महीपते ।
न्यासीकृताहं विप्रेण यदन्यस्मै समर्पिता ।। ७५२ ॥
अथवा बलिनो राज्ञः स्वाधीनैवास्मि किं त्वयम् ।
तीर्थयात्रां मन्त्रिसुतः कृत्वा स्पृशतु मामिति ॥ ७६३ ।।
ततस्तां प्राप्य तीर्थानि ययौ मन्त्रिसुतः क्षणात् ।
स्त्रीरूपः स तु तद्गेहे तस्थौ तद्भार्यया संह .!! ७५४ ॥
तयापि जातविश्वासो दर्शयित्वा निजाकृतिम् ।
लेभे तत्सुरतं हृष्टो मनःस्वामी दिवानिशम् ।। ७६५ ।।
मूलदेवोऽथ राजानं ययाचे निजकन्यकाम् ।
शापभीतस्ततो राजा कम्पमानो निरुत्तरः ।
विविच्य मन्त्रिभिस्तस्मै पुत्रार्थं स्वसुतां ददौ ।। ७६६ ॥
ततः कपटपुत्राय शशिने तां नृपात्मजाम् ।
दापयित्वा प्रतिययौ मूलदेवो महामतिः ॥ ७६७ ।।
स व्रजञ्शशिना सार्धं राजपुत्र्या च वर्त्मनि
मनःस्वामिनमासाद्य तद्वृत्तान्तमथाशृणोत् ।। ७९८ ॥
मनःस्वामी ततः प्राह धूर्तेश त्वदनुग्रहात् ।
अभीष्टं मम संपन्नं दीयतां मे नृपात्मजा ॥ ७९९ ।।


राणाततरङ्गितम् ततः कदाचित्तं ज्ञात्वा मंत्रिपुत्रं समागतम् । ययौ गृहीत्वा

विकाया किलपि हायातः । अत्रान्तरे मूलदेवः शशिना सहितो दृषम् । मुनिस्त्वद्रूपम- रोल श्रमचे निजकन्या काम् ॥ शपभीवस्तातो ख. २. संपूर्ण ख.