पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाङ्कवत्याम्-वेतालपञ्चविंशतिका ।]।
३४७
बृहत्कथामञ्जरी।

स कूटकन्यकारुपो मनःस्वामी व्यचिन्तयत् ।। ७३६ ॥
अहो तु धूर्तधुर्येण किमप्युपकृतं मम ।
यन्मयेयं सुवदना दृष्टा तैरेव लोचनैः ॥ ७३७ ॥
इति ध्यात्वा सविश्रम्भं तां कदाचिदुवाच सः ।
सखि त्वं सततोच्छ्रासा किमुद्विग्नेव लक्ष्यते ॥ ७३८ ॥
ब्रूहीति कन्यारूपेण पृष्टा तेन सुमध्यमा ।
प्राह स्तनतटे हारं कुर्वाणा बाष्पनिर्झरैः ।। ७३९ ।।
सखि दृष्टो मयोद्याने कुञ्जरत्रस्तया युवा ।
यदाकृतिसमुल्लेखे संकल्पोऽपि न पण्डितः॥ १७४० ॥
तस्य लोचनसंचारचतुरेण किमप्यहम् ।
विषेणेव भुजङ्गस्य मूर्छिता न लभे धृतिम् ।। ७४१ ॥
स्वप्नेऽद्य तेन विहितो निर्वाच्यो मे रतोत्सवः ।
सखि सखेदपुलकैर्योऽङ्गै किमपि सूच्यते ॥ ७४२ ॥
इत्याकर्ण्य मनःस्वामी धन्योऽस्तीति व्यचिन्तयत् ।
अपास्य योगगुटिकां बभूव पुरुषाकृतिः ।। ७४.३ ६५
प्रत्यभिज्ञाय तं सद्यः सुभासिक्तेव लज्जिता ।
तदालिङ्गनसंजातकम्पा साभूदनङ्गभूः ।। ७४४ ॥
मनोरथैर्यदभ्यस्तं हृदयेन यदार्थितम् ।
मन्मथेन यदादिष्टं तयोस्तदभवद्रतम् ॥ ७४५ ॥
तद्गाढसुरताश्वेषालपिताप्यथ सात्यजत् ।
संतापशान्तिं सहसा निर्वृहन्हि मनःसुधाम् ॥ ७४६ ॥
सततं सेवमानस्तां स दिवा कन्यकाभवत् ।
राजपुत्री च कालेन गर्भमाधत्त पुष्पिता ।। ७४७ !}
अत्रान्तरे मातुलेयी स्वसा तस्याः सुमध्यमा ।
पित्रा मृगाङ्गवत्याख्या वितीर्णा मन्त्रिसूनवे ।। ७४८ ॥


'चातुर्येण स्व. १. 'सुता ख.