पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
काव्यमाला ।

ततस्तद्भयवित्रस्तां कम्पासिञ्जानमेखलाम् ।
देवेन दत्तावसरः स युवा तामसादयत् ।। ७२५ ॥
रक्षिता द्विजपुत्रेण तत्र सा तरलेक्षणा ।
स्थित्वा क्षणं विभ्रमभूर्जगामान्तःपुरं निजम् ॥ ७२६ ॥
सोऽपि स्मरशरासारपक्षाग्रपवनैरिव ।
कम्पमानः प्रचलितं बभार विरहानलम् ।। ७२७ ॥
क्षीणेन्दुरिव बिभ्राणः शरकाण्डविपाण्डुरम् ।
सकान्तिं प्रययौ मित्रसदनं जीविताशयः ॥ ७२८ ॥
अवाप्य मूलदेवाख्यं शशिना सह संस्थितम् ।
बहुधूर्तशतावासं प्रणनाम स निःश्वसन् ॥ ७२९ ॥
विभ्रष्टवदनच्छायं मूलदेवोऽपि वीक्ष्य तम् ।
हसन्कंदपसर्पेण दष्टोऽसीति तमब्रवीत् ॥ ७३० ।।
तद्वृत्तान्तमथाकर्ण्य स योगघटिकां ददौ ।
स्त्रीरूपकारिणी तस्मै स्वयं वृद्धो बभूव ह ॥ ७३१ ।।
तं कान्तकन्यकारूपं समादाय द्विजात्मजम् ।
वृद्धर्षिरूपः प्रययौ मूलदेवो महीपतिम् ॥ ७३२
यथोचिताप्तसत्कारो यशःकेतुमुवाच सः ।
राजन्स्वपुत्रकायेयमानीता कन्यका मया ॥ ७३३ ॥
तरुणः क्वापि यातोऽसौ तमन्वेष्टुं व्रजाम्यहम् ।
न्यासभूतामिमां कन्यां जगद्रक्षाक्षमप्रभो
रक्षेत्युक्त्वा क्षणं दम्भादभवन्मीलितेक्षणः ॥ ७३४ ॥
शशिप्रभामथाहूय नरनाथो निजात्मजाम् ।
आदिदेश द्विजसुता रक्ष्येयमिति संभ्रमात् ॥ ७३५ ।।
मुनिवेशे प्रयातेऽथ तस्मिन्नन्तःपुरे स्थितः ।


'चित्रस्था' व. २. 'न्वयत् ख. ३. 'या' ख. ४. धूर्त धूख. ५. 'एं वदनं

क्षाम स.. मालिका ख. ७. 'वीरकान्ति(कीतिरुवाच सः ख.