पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
काव्यमाला ।

अभ्येत्य वत्सला प्राह नृपं तद्गृहचेटिका ।
केन त्वं मृत्युवदने प्रेषितो भद्र गम्यताम् ।। ७०० ।।
विश्वासघातकश्चौरस्त्वामयं हन्तुमुद्यतः ।
इति श्रुत्वा ययौ राजा राजधानीमलक्षितः ॥ ७०१ ॥
प्रभाते तूर्णमुत्थाय सज्जीकृतबलाधिपः ।
चौरं सुदुर्जयं युद्धे खयं जग्राह तं नृपः ।। ७०२ ॥
ततोऽपरक्तसंसिक्तो नीतो राजाज्ञया क्षणात् ।
निग्रहाय तया पृष्टो वणिक्पुत्र्या ससंभ्रमम् ॥ ७०३ ॥
तदृृष्ट्वा सहसा जातरागा जनकमभ्यधात् ।
अयं वृतो मया तात वीरो मान्योऽधिको मम ।। ७०४ ॥
इति तद्वचनं श्रुत्वा सनिर्बन्ध पुनः पुनः ।
कथंचित्स नृपं गत्वा तन्मोक्षायावदद्धनम् ॥ ७०५ ॥
ततो राजा विहस्याह यश्चौरस्यास्य रक्षिता ।
सोऽपि वध्यो मम व्यक्तं पापी पापसमाश्रयात् ॥ ७०६ ।।
इति क्ष्मापतिना तस्मिन्निषिद्धे तत्सुता ययौ ।
चौरमेवानुसरणे निर्बन्धे निहितेक्षणा ।। ७०७ ॥
सा स्मशानमथासाद्य धृतं शूले ददर्श तम् ।
ऊर्ध्वाननाक्षमचिरादाप्तैश्चर्यमिवाधनम् ।। ७०८ ॥
स किंचिच्छेषजीवोऽथ तां दृष्ट्वा श्रुततत्कथः ।
मुक्ताश्रुबिन्दुनिकरो विहस्यात्मानमत्यजत् ॥ ७०९ ॥
ततस्तेन समारूढां चितां तो वीक्ष्य शंकरः ।
केलिप्रियो वरं तस्यै स्मशाननिलये ददौ ॥ १० ॥
शंभोर्वरात्पुत्रशतं पित्रे योग्यमयाचत ।
अजीवयच्च भर्तारें श्रिया धर्मेण चावृतम् ।। ७११ ॥
ततः स सहसावाप्तजीवितः प्राप्य तां प्रियाम् ।
सेनापतिः कृतो राज्ञा ननन्द सुभटाग्रणीः ॥ ७१२ ॥


'जीवशेषोऽथ ख २. सिंह खः