पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
काव्यमाला ।

भोगों रोगो विषं वेश्म सर्पबन्धश्च बान्धवाः ।
दग्धारण्यं जगच्चेदं वियोगव्याप्तचेतनाम् ।। १७६ ॥
स सूर्यकिरणाप्लुष्टः कृष्यमाण इवानिशम् ।
भ्रान्त्वा सर्वाणि तीर्थानि क्षुत्क्षामः पांशुधूसरः ।। ३७७ ॥
श्रीमतः पद्मनाभस्य सत्रशालां द्विजन्मनः ।
प्रविश्य दत्तं पत्न्या वै परमान्नमवाप सः ॥६७८ ॥
प्रस्तुते नलिनीतीरे न्यग्रोधस्य तरोरधः ।
भोक्तुं तत्र दिवानक्तं न दिशोऽप्यैक्षत क्षुधा ॥ ६७९ ॥
अत्रान्तरे श्येनहृतः पन्नगोऽगादमूर्छितः ।
विषौघश्यामला. लालां तस्य तस्याज भोजने ॥६८०॥
तदनालोकितं भुक्त्वा पञ्चता स ययौ द्विजः ।
विधौ हि वामतां याते सर्वमेति विपर्ययम् ॥ १८१ ॥
तं त्यक्तजीवितं ज्ञात्वा सत्रदोऽन्नाधिपो निजाम् ।
साध्वीं विवासयामास वधूं तद्भोजनक्रुधा ॥ १८२ ॥
कथयित्वेति वेताल: पप्रच्छ नृपतिं पुनः ।
ब्रह्महत्या नरपते कस्य सा कथ्यतामिति ॥ १८३ ।।
राजा जगाद सोऽसौ श्येनेनात्यन्तपीडितः ।
परतन्त्रो विषोत्सर्गे कथं नामापराध्यति ।। ६८४
श्येनोऽपि दैवनिर्दिष्ट भोक्तुमामिषभुद्यतः ।
बुभुक्षितो निर्विवेकी केन पापीति कथ्यते ॥ ६८५ ॥
अन्नदानपतिः सत्यं सभार्यः सोऽप्यकिल्विषः ।
किं च जानन्वदेद्यः स सत्यं तत्पापभाजनम् ॥ ६८६ ।।
इति तावदहं मन्ये कथं वेताल मन्यसे ।
श्रुत्वेत्यन्तर्हितः सोऽथ तरौ पुनरलम्बत ॥ ६८७ ॥
इति त्रयोदशो वेतालः ॥ १६ ॥


ख.३. 'सत्र' स. ४. किं स्वजानन्वदेदेखब म

तत्यापनाजनक