पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशाश्वत्थाम्-वेतालपञ्चविंशतिका ।।
३४१
बृहत्कथामञ्जरी ।

इति श्रुत्वेति वेतालं क्षिप्रमन्तहितं पुनः ।
आदाय वृक्षशाखाग्राज्जगाम जगतीपतिः ।। १६४ ॥
इति द्वादशो वेतालः ॥ १३ ॥
ततोऽवदस्कन्धगतो धरेशं भीषणाकृतिः ।
शृणु राजन्कथामेकां यस्यां ते कोऽपि संशयः ॥ ६१५ ॥
वाराणस्यां शिवस्वामी द्विजन्माभून्महाजनः ।
ऐश्चर्यलालितस्तस्य हरिस्वामी सुतोऽभवत् ॥ ६६६ ॥
तस्य लावण्यवत्याख्या मनस्तारुण्यशालिनी
प्रिया बभूव त्रैलोक्यललामललिताकृतिः ॥ ६६७ ॥
स. कदाचित्तया कान्तिसरिता सौधशेखरे ।
सुष्वाप केलिशयने संभोगसुभगोत्सवे ॥ १६८ ॥
अत्रान्तरे रतश्रान्तां तां ददर्श नभश्चरः ।
सुप्तां मदनवेगाख्यः प्रियां जायां द्विजन्मनः ॥ ६६९।।
तस्या विवसनं दृष्ट्वा करिणीदन्तनिर्मलम् ।
स्तनोरुजवनाभोगं बभूव स मनोभुवः ॥ ३७० ।।
अलक्षितो जहाराशु ततस्तामायतेक्षणाम् ।
अदृष्टपूर्वसरम्भकम्पमानां मनोजवः ॥ ६७१ ॥
पाप्तः प्रबुद्धो दयितामपश्यन्नथ दुःखितः ।
अभवद्ब्राह्मणयुवा वियोगविषमूर्छितः ।। ६७२ ।।
हा सुन्दरि सुधास्यन्दमन्दिरं कृधि (१) सस्मितम् ।
पुनरिन्दुमिवानन्दबन्धु द्रक्ष्यामि ते मुखम् ॥ ६७३. ।।
इति प्रलापमुखरः सुहृत्स्वजनशोकदः ।
उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः ॥६७४॥
संप्राप्य कृष्णपक्षेन्दुतानवैकोपमागताम् ।
त्यक्त्वा स्वनगरं प्रायादेहं देहीश्वरो यथा ॥ ६.७५ ॥


देवता क२.रतम्लानाय का