पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
काव्यमाला ।

इत्यहं गुरुणा शप्ता तच्च रक्षस्त्वया हतम् ।
नष्टशापा सविद्या च स्वस्ति गच्छाम्यहं विभो ॥ १५१ ॥
इति श्रुत्वाङ्गनुपतिर्वियोगचकितोऽवदत् ।
गमिष्यसि मया सुभ्रु विहृत्य दिनसप्तकम् ॥ ६९२ ॥
इति तेनार्थिता मुग्धा प्रेम्णा सा हरिणेक्षणा ।
सिषेवे रुचिरोद्याने तं हेमकदलीवने ॥ ६५३ ॥
ततस्तया सह नृपस्तस्मिन्पुष्करिणीजले ।
निमज्ज्य केलिरभसादुन्ममज्ज निजात्पुरात् ।। ६५४ ॥
दीर्घदर्शिनमासाद्य निवेद्यास्मै निजां कथाम् ।
भेजे राज्यं प्रियाप्राप्तिविस्तारितमहोत्सवः ॥ ६९६ ।।
अत्रान्तरे नभो गन्तुमुद्यता दिनसप्तके ।
प्रयाते सा न सस्मार विद्यां मानुषसंगमात् ॥ ६९६ ॥
विद्याविहीनां तां ज्ञात्वा ननर्त जगतीपतिः ।
तां सेवमानः सुचिरं विललास सुलोचनाम् ॥ ६१७ ॥
तस्मिन्नेवोत्सवदिने दीर्घदर्शी व्यपद्यतः ।
अज्ञातकारणः सर्वैर्निशीथे स्फुटिताशयः ॥ १५८ ॥
कथयित्वेति वेतालः पृष्ठवान्पृथिवीश्वरम् ।
मन्त्रिणः प्रलये तस्य हेतुं ब्रूहि महीपतेः ।। ६५९ ॥
किं वा दृष्ट्वा नृपतिना तामानीतां मृगेक्षणाम् ।
प्राप्ता मयैव किं नेयमित्यभूतस्य चेतसि ॥ ६६० ॥
उत प्राप्तं मया राज्यं राजा तस्सिम्महार्णवे ।
मनोऽपि नष्टः किमिति किं तु दुःखादितोऽभवत् ॥ १६ ॥
राजन्कश्य मे तत्त्वमिति पृष्टोऽब्रवीन्नृपः ।
स मन्त्री प्रलयं यातो येन तच्छ्रूयतां सखे ॥ ६१२ ॥
स्वभावरागिणा प्राप्ता राज्ञा दिव्येयमङ्गना ।
कष्टनुच्छन्नकार्योऽयमित्यभूत्तस्य ह्रद्गतम् ॥ १६३ ॥