पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवस्त्राम-बेतालपश्चविंशतिका ।
३३९
वृहत्कथामारी।

अविभागममर्यादमपास्तविनयक्रमम् ।
ततस्तयोः किमप्यासीविकल्पविरतं रतम् ॥ ३८ ॥
विस्तमाल्यवस्मिल्लं खेदमद्विशेवछन् ।
व्यामीलितार्धनयनं तस्याः कान्तमभूद्रपुः ॥ ६.३९ ।।
एवं प्रतिनिशं तेन रममाणा सुमध्यमा ।
ज्ञात्वा चतुर्दशीं प्राप्तां प्रययौ तदनुज्ञया ॥ १४ ॥
नलिनीमण्डपे नास्मिन्प्रवेष्टव्यं त्वया विभो।
उक्त्वेति तस्यां यातायामन्वगात्सोऽप्यलक्षितः ।। ६४१॥
गत्वाथ स्वङ्गी दूरस्थो ददर्श जलदत्विषा ।
राक्षसेन निगीर्णा तां राहुणेव विधोः कलाम् ॥ ६४२ ॥
दृष्ट्वा वृत्तान्तसंत्रासन्नाम्नातीतेन रक्षसा !
ग्रस्तां दुःखाच्च कोपाच्च खड्गेनाथ जधान तम् ॥ ६४३ ॥
तत्कृपाणाग्रनिकृतं शिरस्तस्यापतद्भुवि ।
श्रृङ्गं नीलाचलस्येव पिङ्गकेशदवानलम् ॥ ६४४ ॥
ततस्तस्योदरदरीदेहगरताद्विनिर्गता ।
क्षीणशापा निजकथां स्मृत्वा कान्तमुवाच सा॥ ६४६ ।।
अहं मृगाङ्कवत्याख्या विद्याधरमहीपतेः ।
ज्येष्ठा मृगासेनस्य पुत्री पुत्रसहस्रिणः ॥ ६४६ ।।
न भुङ्क्ते मां विना नित्यं स दिव्यरसभोजनम् ।
अप्यात्मसदृशैः पुत्रैर्बहुभिः परिवारितः ॥ ६४७. !!
गौरीव्रते कदाचित्तु चतुर्दश्यामुपोषिता ।
अहं तेनाभवत्तातो दिनमेकमभोजनः ॥ ६.४८ ॥
तत्कोपान्मां शशापासौ चतुर्दश्यां निशाचरः ।
अष्टम्यां च सदैव त्वां भुक्त्वा त्यक्ष्यत्यवीक्षिताम् ॥ १४९॥
शून्ये च स्थास्यसि चिरं भ्रष्टविद्या रसातले !
अङ्गराजेन भर्त्रा ते हतो यावन्न राक्षसः ।। ६५० ।।


विशीणों क.