पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३८
काव्यमाला ।

नृपोऽप्यम्भोधिमाविश्य काञ्चनोदारमन्दिरे ।
(ददर्श निर्जनं रत्नप्राकारप्रवरं पुरम्) ॥ ६९६ ।।
शून्यामन्वेष्य यत्नेन माणिक्यमवनावलीम् ।
हेमवेश्मन्यपश्यत्तां मणिपर्यङ्कशायिनीम् ॥ २६ ॥
ददर्शोशुकमुद्धाट्य ततोऽस्याः संमुखाम्बुजम् ।
नलिन्या इव नीहारं विनिवार्य दिवाकरः ।। ६२७ ॥
सा प्रबुद्धा नरपतिं वीक्ष्य विस्मितमानसा।
प्रदध्यौ छन्नवेषोऽयं चक्रवर्तिपदोचितः ।। १२८॥
ध्रुवं राजा यशःकेतुः श्रीमान्कमललोचनः ।
विचिन्त्येत्यभवत्कम्पतरला स्मरवल्लरी ।। १२९ ।।
संबभार समुद्भूतसंभूतपुलकाङ्कुरा !
अङ्गैरनङ्गसुभगैः कदम्बमुकुलश्रियम् ॥ ६३० ॥
ततो विदितसत्कारस्तया लज्जादिलोलया।
पृष्टो निजकथामुक्त्वा पर्यङ्के निषसाद सः ॥ ६३१ ॥
नामाभिजनमाकर्ण्य यशःकेतुरिति स्फुटम् ।
सखेदकम्पा लोलाम्बुबिम्बितेव विधोः कला ।। ६३९॥
तेनाथ राजभृङ्गेण तैस्तैः किमपि वर्णनैः ।
बालिकाकलिकेवासौ कृता हर्षविकाशिनी ।। ३३३ ॥ .
ततस्तयोरभूत्स्पष्टं संभोगाभिमुखं मनः ।
यूनोः प्रथमसङ्गेऽपि लज्जां न क्षमते सरः ॥ १३३ ।।
अहं नाथ त्वदायत्ता विना कृष्णचतुर्दशीम् ।
अष्टमीं चेति विदधे सा तेन सह संविदम् ॥ ६३६ ॥
पेशला सह तेनैषा प्रौढा समुचितं रतम् ।
इतीवाराविणीं राजा चकर्ष रसनां ततः ॥ १३ ॥
ह्रते तेन स्मररसात्सहसा अघनांशुके ।
आलोकनमयात्तस्य सा गाढालिङ्गनं व्यधात् ॥ ६३७॥
१. एतकोष्टान्तर्गत पाठ क-मुस्तके त्रुटितः. २. साब' क..हि के.