पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
शशावत्या वेतालपञ्चविंशतिका ।
३३७
बृहत्तचापञ्जरी

कुशनाभेन मुनिना दयिता प्राप्स्यसीत्यय ।
कृताश्वासस्तथादिष्टं सार्थवाहं समभ्ययात् ॥ ११ ॥
लक्ष्मीदत्ताभिधानस्य तूर्णं प्रवहणं ततः ।
स समारुह्य जलधेर्मध्यं प्राप्य' प्रियाशया ॥ ६१३ ॥
तत्र वैडूर्यशिखराकारकल्लोलमालिते।
समुस्थिते जलस्तम्भे ददर्श मणिपादपम् । ६१४ ॥
धात्रा वैचित्र्यनिर्माणरम्योपकरणश्रियम् ।
निधानमिव रक्षायै हस्ते न्यस्त महोदधेः ॥ ६१५ ॥
तस्य कल्पतरोः स्कन्धे गायन्तीं दिव्यकन्यकाम् ।
निषण्णां रत्नपर्यङ्के ददर्शानङ्गमङ्गलाम् ॥ ६१६ ॥
लावण्यपुण्यनिर्मज्जद्गात्रलेखां महोदधेः ।
सुधाकल्लोलकलितां पुनर्लक्ष्मीमिवोदताम् ॥ ६१७ ।।
वीक्ष्य तां सोऽभवद्भूरिकम्पप्रमदविस्मयः ।
अहो रूपमहो कान्तिरित्यालोलितकन्धरः ॥ १८ ॥
लयं तालानुगं चित्रपदमालास्थितस्वरम् ।
संगीयतां निमज्जन्तीं सवृक्षां वीक्ष्य सोऽब्रवीत् ॥ ६१९ ॥
जय भगवञ्शशिकौस्तुभकमलापीयूषवारुणीः सूते ।
रत्नाकर मग कान्तां लोचनपानामृतं वितर ।। ६२० ॥
उक्त्वेति चिक्षेप नृपः सहसा सलिले तनुस् ।
(स्मेरदावाग्निनिर्वाणाधियेवाहितसाहसः ॥ २१ ॥
सार्थवाहोऽपि तं वीक्ष्य निमग्नं मकराकरे ।
ममज्ज दुःखसलिले तद्वियोगोरुसागरे). ॥ ६२२ ॥
पूर्वभार्यां समन्वेष्टुं यशःकेतुरसौ नृपः ।
प्रविष्टोऽब्धिमिति क्षिप्रमुच्चचार वचस्ततः ॥ ६२३ ॥
तदाकर्ण्य समाश्वास्य कृतकार्यों वणिक्पतिः ।
प्रययावानुकूल्येन मरुतां स्वपुरं शनैः ।। ६२४ ॥


"इन्दिता क. २. एतत्कोष्टान्तर्गतपाठः क पुस्तके त्रुटितः