पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
काव्यमाला ।

अस्मिन्कर्मक्षेत्रे येन यदुप्तं स एव तद्भुङ्क्ते ।
लभते नान्धेन धृतं चक्षुष्मानप्युपायेन ॥ ९९९ ॥
इति वीणास्वनजुषा गीतेन श्रवणामृतम् ।
विकीर्य तरुपर्यङ्कसहिता सा तिरोदधे ॥ ६०० ॥
ततस्तद्दर्शनाश्चर्यनिश्चलं दीर्घदर्शिनम् ।
कर्णधारो विहस्याह सहेलं बर्बरामिधः ।। ६०१ ॥
किं विस्मितोऽसि कन्यैषा सदैवात्र प्रदृश्यते ।
ज्ञायते नाम शीलं वा कुलं वास्या न केनचित् ।। ६०२॥
इति ब्रुवाणे शनकैः कर्णधारे महाद्भुतम् ।
पवनस्यानुकूल्येन द्वीपं प्राप स सार्थपः ॥ ६०३ ।।
कृतकृत्ये गृहं प्राप्ते तस्मिन्रत्नवति क्षणात् ।
तद्वेश्मनि चिरं स्थित्वा मन्त्री स्वनगरं ययौ ।। ६०४ ॥
अत्रान्तरे यशःकेतुस्तद्वियोगाग्नितापितः ।
आगतो दीर्घदर्शीति विज्ञप्तो द्वाररक्षिणा ॥ ६०६ ॥
ततो नरपतिः क्षिप्रं हृष्टस्तेन समागतः ।
मेने वराकं त्रैलोक्यराज्यं विस्तारिलोचनः ।। ६०६ ॥
तमपृच्छत्परिष्वज्य परित्यज्य गतोऽसि किम् ।
गृह बन्धुजनं भार्यां श्रियं मां च निरादरः ॥ ६०७ ॥
इति राजवचः श्रुत्वा पुण्यतीर्थार्थितां वदन् ।
समुद्रदृष्टमाश्चर्यं दिव्यकन्यामवर्णयत् ॥ ६०८ ॥
तां निशम्य नवोत्कण्ठानिर्भरोऽभून्महीपतिः ।
श्रुतो ह्येव विशत्यन्तः प्राग्जन्मदयितो जनः ॥ ६०९ ॥
स दीर्घदर्शिने राज्यं न्यासीकृत्य स्मरातुरः ।
द्रष्टुं शंशाङ्कवदनां भिक्षुवेषोऽम्बुधिं ययौ ।। ६१० ॥
सरित्पुराकरारण्यग्रामशैलान्समुत्तरन् ।

क्रमाच्छ्रीपर्वतं प्राप्य नत्वा देवीं हरिप्रियाम् ॥ ६११ ॥
१. 'मणि' क. २. महाबुद्धे का