पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-बेतालपञ्चविंशतिका ।
३३५
बृहत्कथामञ्जरी।

तस्मिन्विन्यस्य पृथिवीभारं स वसुधाधिपः ।
सिषेवे चन्द्रवदनां श्यामां श्यामामिवोडुपः । ५८६ ।।
तस्मिन्स्मररसासक्ते स श्रीमान्मन्त्रिपुंगवः !
कोशदुर्गबलाधानव्यग्रोऽभूत्सततोस्थितः ॥ ६८७ ।।
दीर्घदर्शी श्रियं भुङ्क्ते नाममात्रं नृपो नृपः ।
जनप्रवादं श्रुत्वेति सोऽभूच्चिन्ताकुलस्ततः ॥ १८८ ॥
भेधाविन्याथ संचिन्त्य भार्यया सह तां कथाम् ।
तीर्थयात्रापदेशेन ययावेको निशामुखे ॥ ५८९ ॥
(व्रजन्क्रमेण संप्राप्य तीरोपान्तं महोदधेः ।
निधिदत्ताभिधानेन सार्थवाहेन लंगलः ।। ९९०
तेन संजातसौहाईः सौवर्णद्वीपगामिना)।
आरुह्य तत्प्रवहणं मध्य प्राय महोदधेः ।। ५९१ ।।
ततस्तत्र निवातेऽपि ददर्श सहसोत्थितम् ।
स्फटिकाचलशृङ्गामं सलिलस्तम्भमुन्नतम् ॥ ९९२ ॥
पृथुं ददर्श तन्मध्ये कान्तं कनकपादपम् !
पारिजातमिबोत्सृष्टं मन्थभीत्याब्धिना पुनः ॥ ९९३ ॥
विद्रुमस्तम्भसुभगे चित्ररत्नलतोज्ज्वले ।
(तस्मिन्माणिक्यपर्यङ्के स्थितां कन्यां ददर्श सः) ! ५९४ ॥
पद्मरागाधरां नीललोलालकविभूषिताम् ।
मूर्तां रत्नाकरस्येव देवतां मौक्तिकस्मिताम् ॥ १९५ ॥
तां दृष्ट्वा विसयोत्फुल्लस्तस्या गीतमथाशृणोत् ।
तन्मुखाम्भोजलुब्धानां भृङ्गाणामिव गुञ्जितम् ।। १९६ ॥
येन यदा यद्विहितं प्राप्तुमसौ तत्तदा स्वयं याति ।
आक्रम्य नीयते वा कर्मगुणैरायतैस्तत्र ॥ ५९७ ॥
देहभृतां किल सततं सर्वत्र शुभाशुभं याति ।
आमोदः कुसुमानां कीटमणीनामिवालोकः ॥ १९८॥


१.,३. एतरकोष्ठान्तर्गतपालक-पुस्तके ध्रुटितः, ३. स्कन्ध क.