पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
काव्यमाला ।

मृगाङ्कवत्यथाहूता रतये भूभुजा निशिः ।
समाययौ विभ्रमभूः क्वणन्नूपुरमेखला ।। ५७६ ॥
निःशब्दजनसंचारे कुत्तोऽपि मुशलध्वनिम् ।
श्रुत्वा तदा जातकिणो धुन्वाना करपल्लवौ ॥ ९७५ ॥
दष्टा इवेत्य मधुपैरुत्फुल्लकमलाशया।
हा हतास्मीति चुक्रोश तारसीत्कारशालिनी ॥ ७६ ।।
श्रीखण्डरससंसिक्तकरामाशुं स भूपतिः ।
परिसान्त्व्य क्षपां क्षिप्रं क्षीणां वीक्ष्य समुत्थितः ।। ६७७ ।।
कथयित्वेति वेतालः पप्रच्छ वसुधाधिपम् ।..
सुकुमारतरा राजन्का तासां कथ्यतामिति ।। ५७८ ॥
नृपोऽवदन्मृदुतनुः सुकुमारतरैव सा ।
यस्या भुशलशब्देन जातो पाणी क्रिणाङ्कितौ ॥ ५७९ ।।
इति श्रुत्वैव वेतालः सहसादर्शनं गतः ।
वृक्षापात्पुनरादाय ययौ राजा महाजवः ॥ १४०॥
इत्येकादशो वेतालः ॥ १३ ॥
सोऽथ स्कन्धगतः प्राह कथां शृणु विशांयते ।
अशेषसंशयच्छेत्ता देवदेवो मतोऽसि मे ॥ ५८१ ॥
नृपोऽभूदङ्गविषये यश केतुरिति श्रुतः ।
यद्यशःपुण्डरीकस्य मृणाल फणिनायकः ।। ६६२ ।।
पृथुवेपथुसिञ्जानैर्यति संधाय भूषणैः ।
यस्य किन्नरकान्ताभिर्गीयते चरितावली ॥ ५४३ ॥
यत्पराक्रममाकर्ण्य लङ्कालोडनसाक्षिणः ।
स्मरन्ति रामचरितं ते. जीर्णा रजनीचराः ॥ ५८४ ॥
अमात्यो दीर्घदर्शीति तस्याभूदुचिताभिधः ।
यन्मन्त्रैः शत्रुसर्पाणां नाभवन्क्वचिदुद्भवाः । ५८५ ॥


वित संजात क. २२. 'विजिल क. ३. शीत्य क. ४. 'राजा पुनर्ग

हित्याय प्रतस्थेऽतुलविक्रमः क.