पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशावत्याम्-वेतालपञ्चविंशतिका ।
३३३
बृहत्कथामञ्जरी ।

अत्रान्तरे मृगदृशस्तस्या भ्रमणविभ्रमात् ।
कर्णोत्पलेन पतता क्षिप्रभूरुरभज्यत ।। ५६२ ।।
निजमन्तःपुरं नीत्वा दासीभिः कथमप्यसौ ।
तस्थौ स्फटिकपर्यङ्के मूर्छामोहनिमीलिता ॥ ५६३ ॥
ततस्तिमिरमायूरतालवृन्तसमाहृते ।
जगद्गृहे गृहपतौ गते दीप इवाखिले ॥ ९६४ ॥
सीत्काराचार्यतां याते निशीथे. हरिणीदृशाम् ।
संकुचत्पद्मकोशाग्रबद्धभृङ्गरवैरिव ।। ६६५ ॥
उदिते व्योमनलिनीराजहंसे सितत्विपि ।
कान्तास्मितामृतासक्त इवालोके विलासिनि ॥ ५६६ ॥
रजनीराजतनयाकन्दुकेनेन्दुना मुहुः ।
यामिनीकामिनीहारैः करैरापूरितेऽम्बरे ॥ ५६७ ॥
उत्सवेन विलासस्य विभ्रमेण मदश्रियः ।
जीवितेन मनोजस्य शशिनां भूषिते मधौ ।। ५६८ ॥
आखण्डलद्विपाखण्डदन्तदण्डोरुडम्बरैः ।
रश्मिखण्डैः शशाङ्कस्य मण्डिले क्षितिमण्डले ॥ ५६९ ॥
तारावलीसखो राजा सौधे लीलारतालसः ।
कर्पूरशुभ्रः सुप्वाष द्वितीय इद चन्द्रमाः ॥ ५७० ॥
मधुमत्ता रतिक्लान्ततनुवली श्रमाम्बुभिः ।
संमृज्य तिलका क्षिप्रं देवी निद्रां समाययौ ।। ५७१।।
तस्याः शीताभिलाषिण्यास्तत्र गात्रे निरम्बरे ।
पतितैश्चन्द्रकिरणैरुत्तस्थौ स्फोटकावली ॥ १७२ ।।
ततो भुजगदष्टेव प्लुष्टेव शिखिनोत्थिता !
ययावाश्वासिता राज्ञा कदलीशयनं शनैः ॥ ६७३ ॥


२. 'दाधेव' क.