पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३२
काव्यमाला ।

"वत्तां समुद्रदत्तोऽपि कथं तामन्यमानसाम् ।
किं न कुर्युर्गृहे रुद्धा विरक्तहृदयाः स्त्रियः ॥ ५६० ॥
सत्ववानेक एवात्र चौरोऽसौ तां मुमोच यः।
प्राणान्हि पणमाधाय धने धावन्ति दस्यवः ॥ ६५१ ॥
इति श्रुत्वैव वेतालस्तरौ पुनलम्बत ।।
भूयोऽप्यादाय तं राजा ययौ मारुतरंहसा ।। ५५२ ॥
इति दशमो वेतालः ॥ १२ ॥
ततः स्कन्धस्थितः प्राह वेतालः प्रहसन्मुहुः ।
अहो राजन्निरुद्वेगो व्यवसायस्तवायतः ।। ५५३ ।।
राजा धर्मध्वजो नाम बभूवोज्जयिनीपतिः ।
तिस्रस्तस्याभवन्भार्यास्तरुण्यः कान्तिभूषणाः ॥ ५९४ ॥
इन्दुलेखाभिधानैका कान्ता तारावली परा !
अन्या मृगावत्याख्या चेत्युन्नतकुचोद्धताः ॥ ५६९ ॥
कदाचिद्दक्षिणमरुत्तरङ्गितलतावने ।
वसन्ते संततोत्फुल्लचूतचम्पककेसरे ।। १५६ ॥
काले केसरिणि स्मेरसिन्दुवारसँटोद्भटे ।
मानिनीमानमातङ्गदारणे कलिकानखे ॥ ५५७ ।।
शर्वरीकबरीपाशत्विषि षट्पदमण्डले ।
दिक्षु कालागरुस्यन्दपत्रभङ्गतुलास्थिते ।। ५५८ ॥
सेव्यता ललनाभोगः पीयतां पातलं. मधु ।
न ह्यनन्तो वसन्तोऽयं वदतीवेति कोकिले ।। ६५९ ॥
राजा चूतरजःपुञ्जपिञ्जरे बल्लभासखः ।
विजहार निजोद्याने विराजितमधूत्सवः ॥ ५६० ॥
(अथ तत्रेन्दुलेखायाः केलिलोलदिशा दिशः !
इन्दीवरदलोदारा बभूवुर्नन्दनोत्सवे) ॥ ५६१ ।


१. भुक्तो के.. 'सुशील सत्कुलोचिता' कः ३. मदोत्कटैः' क.. ४. एतत्को-

छान्तर्गतपाठ क-पुस्तके शुटितः.