पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९. शशाङ्कवत्याम्-बेतालपञ्चविंशतिका ।
३३१
बृहत्कथामञ्जरी

श्रुत्वेत्याह विहस्यैनां नाहं ग्राम्यः शुचिस्मिते ।
यस्त्वां स्मरालंकरणां त्यक्त्वा यास्याम्यचेतनः ॥ ५३७ ॥
इत्युक्ता तेन संरुद्धा सा जगौ वल्गुवादिनी ।
इचसा येन निर्बद्वा तरमादेत्यास्मि ते कशे ॥ ५३८ ।।.
स श्रुत्वेत्साह चित्रं ते सरलः कोऽप्ययं क्रमः ।
लिप्त्वा दिक्षु क्षिपत्को नु कण्ठस्थां रनमालिकाम् ॥ ९३९ ॥
गच्छामि पुनरेष्यामीत्येवं धूर्तो न वञ्च्यते ।
योषितां च नदीनां न पुनरागमनं कुतः ।। ५४० ।।
यस्तु हस्तगतं रत्नं मोहात्त्यजति बालवत् ।
स मन्दपुण्यः सुभगे पुनस्तस्य न भाजनम् ।। ५४१ ।।
इति वादिनमत्युग्रसाहसं तं चकार सा।
निवेद्य निजवृत्तान्तं किंचिद्धि कलितग्रहम् ॥ ५४२॥
सोऽब्रवीद्धर्मदत्तस्य यथा तथ्यं वचः कृतम् ।
तथैव मे त्या कार्यं गत्वा सत्यवती हासि ।। ६४३॥
इति चौरेण मुक्तासौ भाण्डशालान्तरस्थितम् ।
धर्मदत्तनवाप्याहं प्राप्तास्मीति सविस्मयम् !! ६४४ ॥
सोऽवदत्परमार्या में न गम्या त्वं सुलोचने ।
शमितोऽनङ्गदावाग्निधूम्राभ्रमलिनः क्षणः ॥ ५४५ ।।
प्रतिमुक्त्तापि सा तेन चोरमेत्य तदाभ्यधात् ।
सत्यत्वात्सोऽपि तच्छ्रुत्वा तां तत्याज सभूषणाम् ॥ ९४६ ॥
तत्तः समुद्रदत्तं सा पुनरम्येत्य वल्लभम् ।
यथा वृत्तं निवेद्यास्मै भेजे तेन स्मरोत्सवम् ।। ५४७ ।।
नृपमुक्त्वेति प्रपच्छ वेतालो वञ्चनोन्मुखः ।
ब्रूहि कोऽत्र महासत्वः श्रुत्वेत्याह च भूपतिः ।। ६४.८ ।।
तत्याज धर्मदत्तस्तां बहुकर्णगतां प्रियाम् ।
राजभीत्या सुखे नित्यं धनिनो हि पराङ्मुखाः ।। ५४१ ॥


१. हित्वा क. २. के वि' का ३. 'त्यवान् क... ४.. काला क.