पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
काव्यमाला ।

वणिजो धर्मदत्तस्य हठसङ्गभयामया
अभ्रष्टाहं समेष्यामि त्वामिति प्राक्प्रतिश्रुतम् ।। १२४
असत्यं नोत्सहे कर्तुं तदनुज्ञातुमर्हसि ।
इत्याकर्ण्य स तत्याज तामाशां च तदागमे ।। ५२६ ॥
ततः सा तेन विजने संत्यक्ता प्रययौ निशि ।
तारहारांशुधवला कमलेनेव कौमुदी ॥ ५२६ ॥
प्रयान्ती धर्मदत्तस्य भाण्डशालां सुलोचनाम् ।
सर्वस्वहारी चौरस्तां ददर्शोज्ज्वलभूष्णाम् ।। ५२७ !!
विस्तीर्णवक्षः प्राकारो मेघश्यामो महाभुजः ।
तमःशबरसंघातसेनापतिरिवाअगः ।। ५२८ ॥
स्कन्धावलम्बिभिर्भृङ्गनीलैः कुटिलकुन्तलैः ।
सदा संचरणप्रीत्या रात्रिचकैरिवाश्रितः ।। ५२९ ।।
उद्भिन्नश्मश्रुलेखाग्रकेशमण्डलमण्डितः ।
दिग्दन्तिमुक्ताचौर्येषु मदाम्बुभिरिवाङ्कितः ॥ ६३०.॥
विकोशासिप्रभाजालैर्दीप्तैरालम्बिताम्बरः ।
तारा रत्नप्रहारार्थमिवारोहणरज्जुभिः ॥ ५३१ ।।
स दृष्ट्वा तां सुवदनां कूजद्भूषणमौक्तिकाम् ।
दिवः सचन्द्रनक्षत्रों श्रियं संचारिणीमिव ॥ ९३२ ।।
नेत्रयोः कज्जलेनेव नीलाञ्जेनेव कर्णयोः ।
तनौ कृष्णांशुकेनेव तमसायि विभूषिताम् ॥ ५३३ ॥
करेणु कुञ्जराकारस्तां राजकदलीमिव ।
समालम्ब्यावदद्धन्यः कोऽसौ यो मृग्यते त्वया ॥ १३ ॥
सर्वस्वहारी चौरोऽहं क्व नु गच्छसि निर्भया ।
(अथवा मण्डलोदण्डकोदण्डस्ते स्मरोऽनुगः ॥ ९३९ ॥
इत्युक्ता तेन सा प्राह चौरोऽसि यदि गृह्यताम् ) ।
रत्नभूषणमामुक्तमौक्तिकं किं तु मुञ्च माम् ॥ ५३६ ।।


एलरको छानविपाक क-पुस्तके त्रुटिता.