पृष्ठम्:काव्यमाला (बृहत्कथामञ्जरी).pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१. अंशावत्याम्-बेतालपञ्चविंशतिका 1]।:
३२९
बृहत्कथामञ्जरी

अष्टायां मयि तातस्य विनवे कन्यकाफले ।
कुलं पतति नः सर्वं तत्र मा. कारणं भव ।। ५११ ।।
प्राग्जन्मविहितः कोऽपि निबन्धो यदि मे प्रभो ।
तत्पित्रे स्वफलं दत्वा कृतोद्वाहास्मि ते वशे ॥ ५१२ ॥
वणिग्युवा निशम्येति माह सर्वं न मे वरम् ।
नवा मालां परित्यज्य निर्माल्ये रमते नु कः ।। ५१३ ॥
अनन्यस्पृष्टनुचितं त्यक्तुं नेशोऽस्मि ते वपुः ।।
को हि हस्तात्परित्यज्य कुर्यादन्वेषणश्रमम् ॥ ५१४ ॥
इत्याग्रहेण तेनोक्ता निर्जने भयविह्वला ।
अबला बलिना लब्धा निःश्वसन्ती जगाद सा ।। ६१५ ॥
सत्यं वृत्तविवाहाहं त्वदन्तिवामदूषिता ।
समेष्यामि क्षणामेकामिति ते सुकृतैः शुषे ।। ५१६ ॥
श्रुत्वेति स ययौ तुष्टः प्रीतये हि मृगीदृशाम् ।
प्रणयादभ्युपरमो यथा नैव तथा हठात् ।। ५१७ ॥
अथ लग्गदिने प्राप्ते प्रवृत्ते विपुलोत्सवे ।
समुद्रदत्तस्तरुणी परिणीय निनाय ताम् ।। ५१८ ॥
ततो मुक्तोत्तरं स्मेरकुसुमोत्तंसमन्दिरे ।
भेजाते दम्पती शय्यां तनुस्वस्वच्छोत्तरच्छदाम् ।। ५१९ ॥
लज्जानतमुखी तेन चाटुकारेण कामिना ।
करेण रुद्धां नो नीवीं याचितापि मुमोच सा ।। ६२० ।।
ततः सा तस्य वणिजः स्मृत्वा प्राग्विहितं वचः ।
यत्नाद्विहाय सहजां लज्जां भर्तारमब्रवीत् ।। ५२१ ॥
प्रौढा समुचितं बाला वैदग्ध्यं सहते कथम् ।
अफुल्लां चूतकलिकां नहि चुम्बति षट्पटः ।। ५२२ ॥
इति नीवीहठाकृष्ट प्रगल्भं विनिमय्य तम् ।
सा प्राह पूर्ववरणद्रोहकाङ्गी कृतेप्सितम् ।। ५२३ ॥


न्धस्यज्यतामयम् क. २. स्वपि क. ३.वार्थताम् कर.